________________
प्रमेयरत्नमाला
•
काभ्यां हि त्रिरूपाल्लिङ्गादेव केवलात् प्रामाण्यमुत्पद्यमानं दृष्टम् । प्रत्यक्षादिष्वपि तथैव प्रतिपत्तव्यं नान्यथेति । तत एवाऽऽतोक्नत्वगुणसद्भावेऽपि न तत्कृतमागमस्य प्रामाण्यम् । तत्र हि गुणेभ्यो दोषाणामभावस्तदभावाच्च संशयविपर्यासलक्षणामामाण्यद्वयासवेऽपि प्रामाण्यमौत्सर्गिकमनपादितमास्त एवेति । ततः स्थितं प्रामाण्यमुत्पत्तौ न सामग्रचन्तरसापेक्षमिति । नापि विषय परिच्छित्तिलक्षणे स्वकार्ये स्वग्रहणसापेक्षम् । अगृहीतप्रामाएयादेव ज्ञानाद्विषयपरिच्छित्तिलक्षणकार्यदर्शनात् ॥ ननु न परिच्छित्तिमात्रं प्रमाणकार्य तस्य मिथ्याज्ञानेऽपि सद्भावात् । परिच्छित्तिविशेषं तु नागृहीतप्रामाण्यं विज्ञानं जनयतीति । तदपि बालविलसितम् । नहि प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेर्विशेषोऽवभासते गृहीतप्रामाण्यादपि विज्ञानान्निर्विशेषविषय परिच्छेदोपलब्धेः ॥ ननु परिच्छितिमात्रस्य शुक्तिकायां रजतज्ञानेऽपि सद्भावात्तस्यापि प्रमाणकार्यत्वप्रसङ्ग इति चेत् - भवेदेवं, यद्यर्थान्यथात्वप्रत्यय स्वहेतूत्थदोषज्ञानाभ्यां तन्नापोद्येत ॥ तस्माद्यत्र कारणदोषज्ञानं बाधकप्रत्ययो वा नोदेति, तत्र स्वत एव प्रामायमिति । न चैवमप्रामाण्येऽप्याशङ्कनीयं, तस्यं विज्ञानकारणातिरिक्तदोषस्वभावसामग्री सव्यपेक्षतयोत्पत्तेः निवृत्तिलक्षणे च स्वकार्ये स्वग्रहणसापेचत्वात् । तद्धि यावन्न ज्ञानं न तावत्स्वविषयात्पुरुषं निवर्तयतीति ।। तदेतत्सर्वमनल्पतमोविलसितम् ॥ तथाहि - न तावत्प्रामाण्यस्योत्पत्तौ सामग्रचन्तरापेक्षत्वमसिद्धम् । श्राप्तप्रणीतत्वलक्षणगुणसन्निधाने सत्येवाप्तप्रणीतवचनेषु प्रामाण्यदर्शनात् । यद्भावाभावाभ्यां यस्योत्पत्यनुत्पत्ती तत् तत्कारणकमिति लोकेऽपि सुप्रसिद्धत्वात् । यदुक्तम् - "विधिमुखेन कार्य - मुखेन वा गुणानामप्रतीतिरिति" तत्र तावदातप्रणीतशब्दे न प्रतीतिर्गुणानामित्ययुक्तं प्रप्तप्रणीतत्त्वहानिप्रसङ्गात् ।। अथ चक्षुरादौ गुणानामप्रतीतिरित्युच्यते तदप्ययुक्तम् । नैर्मल्यादिगुणानामबलाबालादिभिरप्युपलब्धेः ॥ अथ नैर्मल्यं स्वरूपमेव न गुणः तर्हि हेतोरविनाभाववैकल्यमपि स्वरूपविकलतैव न दोष इति समानम् ॥ अथ तद्वैकल्यमेव दोषः तर्हि लिङ्गस्य चचुरादेव तत्स्वरूपसाकल्यमेव गुणः कथं न भवेत् १ प्राप्तोक्तेऽपि शब्दे मोहादिलक्षणस्य दोषस्याभावमेव यथार्थज्ञानादिलक्षणगुणसद्भावमभ्युपगच्छा त्र तथा नेच्छतीति कथमनुन्मत्तः १ अथोक्तमेव - शब्दे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org