________________
प्रमेयरत्नमाला
शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवदिति ॥ १० ॥
यथा घटादिशब्दानुच्चारणेऽपि घटाद्यनुभवस्तथाऽहमहमिकया योऽयमन्तर्मुखाकारतयावभासः स शब्दानुच्चारणेऽपि स्वयमनुभूयत इत्यर्थः ॥ अमुमेवार्थमुपपत्तिपूर्वकं परं प्रति सोल्लुण्ठमाचष्टे— को वा तत्प्रतिभासनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् ॥ ११ ॥
को वा लौकिकः परीक्षको वा । तेन ज्ञानेन प्रतिभासितुं शीलं यस्य स तथोक्तस्तं प्रत्यक्षविषयमिच्छन् विषयिधर्मस्य विषये उपचारात् तदेव ज्ञानमेव तथा प्रत्यक्षत्वेन नेच्छेत्, अपि विच्छेदेव । अन्यथा अप्रामाणिकत्वप्रसङ्गः स्यादित्यर्थः ।। अत्रोदाहरणमाह
प्रदीपवदिति ॥ १२ ॥
इदमत्र तात्पर्यम् - ज्ञानं स्वावभासने स्वातिरिक्तसजातीयार्थान्तरानपक्ष गत्यचार्थगुणत्वे सति अदृष्टानुयायिकरणत्वात्प्रदीपभासुरराकारवत् ॥ अथ भवतु नामाक्वलक्षणलक्षितं प्रमाणं, तथापि तत्प्रामाण्यं स्वतः परतो वा । न तावत्स्वतः अविप्रतिपत्तिप्रसङ्गात् । नापि परतः - अनवस्थाप्रसङ्गादिति मतद्वयमाशंक्य तन्निराकरणेन स्वमतमवस्थापयन्नाह -
-
तत्प्रामाण्यं स्वतः परतश्चेति ॥ १३ ॥
सोपस्कारा हि वाक्यानि भवन्ति । तत इदं प्रतिपत्तव्यं - अभ्यासदशायां स्वतोऽनभ्यासदशायां च परत इति । तेन प्रागुक्तैकान्तद्वयनिरासः न चानभ्यासदशायां परतः प्रामाण्येऽप्यनवस्था समाना, ज्ञानान्तरस्याभ्यस्तविषयस्य स्वतः प्रमाणभूतस्याङ्गीकरणात् । अथवा प्रामाण्यमुत्पत्तौ परत एव । विशिष्टकारणप्रभवत्त्वाद्विशिष्टकार्यस्येति । विषयपरिच्छित्तिलक्षणे प्रवृतिलक्षणे वा स्वकार्ये अभ्यासेतरदशापेक्षया कचित्स्वत: परतश्चेति निश्रीयते । ननुत्पत्तौ विज्ञानकारणातिरिक्तकारणान्तर सव्यपेक्षत्वमसिद्धम् । प्रामाण्यस्य तदितरस्यैवाभावात् ।। गुणाख्यमस्तीति वाङ्मात्रं, विधिमुखेन कार्यमुखेन वा गुणानामप्रतीतेः ॥ नाध्यप्रामाण्यं स्वत एव प्रामाण्यं तु परत एवेति विपर्ययः शक्यते कल्पयितुम् || अन्वयव्यतिरे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org