________________
प्रमेयरत्नमाला
अनिश्चितोऽपूर्वार्थ इति ॥ ४ ॥ यः प्रमाणान्तरेण संशयादिव्यवच्छेदेनानध्यवासितः सोऽपूर्वार्थः ॥ तेनेहादिज्ञानविषयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिनेहादिविषयभूतावान्तरविशेषनिश्चयाभावात् ॥ अथोक्तप्रकार एवापूर्वार्थः किमन्योऽप्यस्तीत्याह
___ दृष्टोऽपि समारोपात्ताहगिति ॥ ५ ॥ दृष्टोऽपि गृहीतोऽपि-न केवलमानश्चित एवेत्यपि शब्दार्थः। तागपूर्वार्थों भवति । समारोपादिति हेतुः ॥ एतदुक्तं भवति-गृहीतमपि ध्यामलिताकारतया यन्निक्तुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते प्रवृत्तसमारोपाव्यवच्छेदात् ॥ ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्वव्यवसायं तु न विद्म इत्यत्राह
स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय इति ॥ ६ ॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वोन्मुखतया स्वानुभवतया प्रतिभासनं स्वस्य व्यवसायः॥ अत्र दृष्टान्तमाह
.... अर्थस्येव तदुन्मुखतयेति ॥ ७॥ तच्छब्देनार्थोऽभिधीयते । यथार्थोन्मुखतया प्रतिभासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायो भवति । अत्रोल्लेखमाह
. घटमहमात्मना वेद्मीति ॥ ८॥ ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानम् । आत्मानं फलं वेति केचित् । कर्तृकर्मणोरेव प्रतीतिरित्यपरे । कर्तृकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतीतिबाधितमिति दर्शयन्नाह____ कर्मवत्कर्तृ करणक्रियाप्रतीतेरिति ॥ ६ ॥
ज्ञानविषयभूतं वस्तु कर्माभिधीयते । तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तद्वत् । कर्ता आत्मा । करणं प्रमाणम् । क्रिया प्रमितिः । कर्ता च करणं च क्रिया च तासां प्रतीतिः तस्या इति हेतौ का प्रागुक्तानुभवोल्लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ननु शब्दपरामर्शसचिवेयं प्रतीतिर्न वस्तुत्वबलोपजातेत्यत्राह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org