________________
मेयरत्नमाला
अथेदानीं स्वोक्तप्रमाणलक्षणस्य ज्ञानमिति विशेषणं समर्थयमानः प्राहहिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं, ततो ज्ञानमेव तदिति ॥२॥
४
हितं सुखं तत्कारणं च । अहितं दुःखं तत्कारणं च । हितं चाहि च हिताहिते । तयोः प्राप्तिश्च परिहारश्च तत्र समर्थम् ।। हि-शब्दो यस्मादर्थे । तेनायमर्थः सम्पादितो भवति । यस्माद्धिताहितप्रातिपरिहारसमर्थ प्रमाणं । ततस्तत्प्रमाणत्वेनाभ्युपगतं वस्तुज्ञानमेव भवितुमर्हति । नाज्ञानरूपं सन्निकर्षादि ॥ तथा च प्रयोगः प्रमाणं ज्ञानमेव हिताहितप्राप्तिपरिहारसमर्थत्वात् । यत्तु न ज्ञानं तन्न हिताहितप्राप्तिपरिहारसमर्थम् । यथा घटादि । हिताहितप्राप्तिपरिहारसमर्थ च विवादापन्नम् । तस्मात् ज्ञानमेव भवतीति । नचैतदसिद्धं । हितप्राप्तयेऽहित परिहाराय च प्रमाणमन्वेषयन्ति प्रेक्षापूर्वकारिणो न व्यसनितया सकलप्रमाणवादिभिरभिमतत्वात् । अत्राह सौगतः - भवतु नाम सन्निकर्षादिव्यवच्छेदेन ज्ञानस्यैव प्रामाण्यं न तदस्माभिर्निषिध्यते । तत्तु व्यवसायात्मकमेवेत्यत्र न युक्तिमुत्पश्यामः । अनुमानस्येव व्यवसायात्मनः प्रामाण्याभ्युपगमात् । प्रत्यक्षस्य तु निर्विकल्पकत्वेऽप्यविसंवादकत्वेन प्रामाण्योपपत्तेरिति तत्राह - तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवदिति ॥ ३ ॥
तत् प्रमाणत्वेनाभ्युपगतं वस्त्विति धर्मिनिर्देशः । व्यवसायात्मकमिति साध्यम् । समारोपविरुद्धत्वादिति हेतु: । अनुमानवदिति दृष्टान्त इति ॥ अयमभिप्रायः संशय विपर्यासानध्यवसायस्वभाव समारोपविरोधिग्रहणलक्षणव्यवसायात्मकत्वे सत्येवाविसंवादित्वमुपपद्यते । विसंवादित्वे च प्रमाणत्वमिति चतुर्विधस्यापि समक्षस्य प्रमाणत्वमभ्युपगच्छता समारोपविरोधिग्रहणलक्षणं निश्चयात्मकमभ्युपगन्तव्यम् ॥ ननु तथापि समारोपविरोधिव्यवसायात्मकत्वयोः समानार्थकत्वात् कथं साध्यसाधनभाव इति न मन्तव्यम् । ज्ञानस्वभावतया तयोरभेदेऽपि व्याप्यव्यापकत्वधर्माधारतया भेदोपपत्तेः । शिंशपात्ववृक्षत्ववत् ॥ अथेदानीं सविशेषणमर्थग्रहणं समर्थ - यमानस्तदेव स्पष्टीकुर्वन्नाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org