________________
प्रमेयरत्नमाला अथेदानीमुपक्षिप्तप्रमाणतत्त्वे स्वरूपसंख्याविषयफललक्षणासु चतसृषु विपतिपत्तिषु मध्ये स्वरूपविपतिपत्तिनिराकरणार्थमाह
स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति ॥१॥ प्रकर्षेण संशयादिव्यवच्छेदेन मीयते परिच्छिद्यते वस्तुतत्त्वं येन तत्पमाणम् ॥ तस्य च ज्ञानमिति विशेषणमज्ञानरूपस्य सनिकर्षादेर्नैयायिकादिपरिकल्पितस्य प्रमाणत्वव्यवच्छेदार्थमुक्तम् ॥ तथा ज्ञानस्यापि स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य निर्विकल्पकस्य प्रत्यक्षत्वेन प्रामाण्यं सौगतैः परि - कल्पितं तन्निरासार्थ व्यवसायात्मकग्रहणम् ॥ तथा बहिरापहोतॄणां विज्ञानाद्वैतवादिनां पुरुषाद्वैतवादिनां पश्यतोहराणां शून्यैकान्तवादिनां च विपर्यासव्युदासार्थमर्थग्रहणम् ॥ अस्य चापूर्वविशेषणं गृहीतग्राहिधारावाहिज्ञानस्य प्रमाणतापरिहारार्थमुक्तम् ॥ तथा परोक्षज्ञानवादिनां मीमांसकानामस्वसंवेदनज्ञानवादिनांसांख्यानां ज्ञानान्तरप्रत्यक्षज्ञानवादिनां यौगानांच मतमपाकर्तुं स्वपदोपादानमित्यव्याप्त्यतिव्याप्त्यसम्भवदोषपरिहारात्सुव्यवस्थितमेव प्रमाणलक्षणम् ॥ अस्य च प्रमाणस्य यथोक्कलक्षणत्वे साध्ये प्रमाणत्वादिति हेतुरत्रैव द्रष्टव्यः । प्रथमान्तस्यापि हेतुपरत्वेन निर्देशोपपत्तेः ॥ प्रत्यक्षं विशदं ज्ञानमित्यादिवत् ॥ तथाहि-प्रमाणं स्वापूर्वार्थव्यवसायात्मक ज्ञान भवति प्रमाणत्वात् ॥ यत्तु स्वापूवोथव्यवसायात्मक ज्ञानं न भवति न तत्पमाणम् । यथा संशयादिर्घटादिश्च । प्रमाणं च विवादापनम् । तस्मात्स्वापूर्वार्थव्यवसायात्मकं ज्ञानमेव भवतीति ॥ न च प्रमाणत्वमसिद्धम् । सर्वप्रमाणस्वरूपवादिनां प्रमाणसामान्य विप्रतिपत्त्यभावात् अन्यथा स्वेष्टानिष्टसाधनदूषणायोगात् । अथ धर्मिणं एव हेतुत्वे प्रतिज्ञार्थंकदेशासिद्धो हेतुः स्यादिति चेन्न। विशेष धर्मिणं कृत्वा सामान्य हेर्नु ब्रुवतां दोषाभावात् ।। एतेनापतधर्मत्वमपि प्रत्युक्तम् । सामान्यस्याशेषविशेषनिष्ठत्वात् । न च पक्षधर्मताबलेन हेतोर्गमकत्वमपि त्वन्यथानुपपत्तिबलेनेति। सा चात्र नियमवती विपक्षे बाधकप्रमाणबलानिश्चितैव । एतेन विरुद्धत्वमनैकान्तिकत्वं च निरस्तं बोद्धव्यम् । विरुद्धस्य व्यभिचारिणश्चाविनाभावनियमनिश्चयलक्षणत्वायोगादतो भवत्येव साध्यसिद्धिरिति केवलव्यतिरेकिणोऽपि हेतोर्गमकत्वात् । सात्मकं जीवच्छरीरं प्राणादिमत्वादितिवत् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org