________________
प्रमेयरत्नमाला। द्धयभावो भवति । कस्मात्तदाभासात् प्रमाणाभासात् ॥ इतिशब्दो हेत्वर्थे इति हेतोः॥अयमत्र समुदायार्थः। यतः कारणात्प्रमाणादर्थसंसिद्धिर्भवति । यस्माच्च तदाभासाद्विपर्ययो भवति । इति हेतोस्तयोः प्रमाणतदाभासयोर्लचम लक्षणमहं वक्ष्ये इति ॥ ननु सम्बन्धाभिधेयशक्थानुष्ठानेष्टप्रयोजनवन्ति हि शास्त्राणि भवन्ति । तत्रास्य प्रकरणस्य यावदभिधेयं सम्बन्धो वा नाभिधी. यते न तावदस्योपादेयत्वं भवितुमर्हति । एष वन्ध्यासुतो यातीत्यादिवाक्यवत् । दशदाडिमादिवाक्यवच्च ॥ तथा शक्यानुष्ठानेष्टप्रयोजनमपि शास्त्रादाववश्यं वक्तव्यमेव । अशक्यानुष्ठानेष्टस्येष्टप्रयोजनस्य सर्वज्वरहरतक्षकचूडारत्नालङ्कारोपदेशस्येव प्रेक्षावद्भिरनादरणीयत्वात् ।। तथा शक्यानुष्ठानस्याप्यनिष्टप्रयोजनस्य विद्वद्भिरवधीरणान्मातृविवाहादिप्रदर्शकवाक्यवदिति ॥ सत्यं, प्रमाणतदाभासपदोपादानादभिधेयमभिहितमेव । प्रमाणतदाभासयोरनेन प्रकरणेनाभिधानात् ॥ सम्बन्धश्चार्थायातः प्रकरणतदभिधेययो
च्यवाचकभावलक्षणः प्रतीयत एव ॥ तथा प्रयोजनं चोक्त लक्षणमादिश्लोकेनैव संलच्यते, प्रयोजनं हि द्विधा भिद्यते । साक्षात्परम्परयेति । तत्र साक्षात्प्रयोजनं वक्ष्ये इत्यनेनाभिधीयते । प्रथमं शास्त्रव्युत्पत्तेरेव विनेयैरन्वे. षणात् ॥ पारम्पर्येण तु प्रयोजनमर्थसंसिद्धिरित्यनेनोच्यते शास्त्रव्युत्पत्त्यनन्तरभावित्वादर्थसंसिद्धेरिति ॥ ननु निःशेषविघ्नोपशमनायेष्टदेवतान. मस्कारः शास्त्रकृता कथं न कृत इति न वाच्यम् । तस्य मनःकायाभ्यामपि सम्भवात् ॥ अथवा वाचनिकोऽपि नमस्कारोऽनेनैवादिवाक्येनाभिहितो वेदितव्यः। केषाश्चिद्वाक्यानामुभयार्थप्रतिपादनपरत्वेनापि दृश्यमानत्वात् । यथा श्वेतो धावतीत्युक्ते श्वा इतो धावति श्वेतगुणयुक्तो धावति इत्यर्थद्वयप्रतीतिः । तत्रादिवाक्यस्य नमस्कारपरताभिधीयते । अर्थस्य हेयोपादेयलक्षणस्य संसिद्धिप्तिर्भवति । कस्मात्प्रमाणात् । अनन्तचतुष्टयस्वरूपान्तरङ्गलक्षणा, समवसरणादिस्वभावा बहिरङ्गलक्षणा लक्ष्मीर्मा इत्युच्यते । अणनमाणः शब्दः मा च आणश्च माणौ प्रकृष्टौ माणौ यस्यासौ प्रमाणः। हरिहरायसम्भावविभूतियुक्तो दृष्टेष्टाविरुद्धवाक्च भगवानहन्नेवाभिधीयत इत्यसाधारणगुणोपदर्शनमेव भगवतः संस्तवनमभिधीयते । तस्मात्ममाणाद. वधिभूतादर्थसंसिद्धिर्भवति तदाभासाच्च हरिहरादेरर्थसंसिद्धिर्न भवति । इति हेतोः सर्वज्ञतदाभासयोर्लचम लक्षणमहं वक्ष्ये-सामग्रीविशेषेत्यादिना ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org