________________
१२
प्रमेयरत्नमाला षेधपरत्वाद्विषमो दृष्टान्त इति चेन्न-इन्द्रियाणां विषयान्तरप्रवृत्तावतिशयाभावमात्रे सादृश्यात् दृष्टान्तत्वोपपत्तेः ॥ न हि सर्वो दृष्टान्तधर्मो दार्शन्तिके भवितुमर्हति । अन्यथा दृष्टान्त एव न स्यादिति । ततः स्थितं प्रत्यक्षानुमानाभ्यामर्थान्तरं प्रत्यभिज्ञान सामग्रीस्वरूपभेदादिति ॥ न चैतदप्रमाणं ततोऽर्थ परिच्छिद्य प्रवर्तमानस्यार्थक्रियायामविसंवादात् प्रत्यक्षवदिति । नचैकत्वापलापे बन्धमोक्षादिव्यवस्था अनुमानव्यवस्था वा । एकत्वाभावे बद्धस्यैव मोक्षादेहीतसम्बन्धस्यैव लिङ्गस्यादर्शनादनुमानस्य च व्यवस्थायोगादिति॥नचास्य विषये बाधकप्रमाणसद्भावादप्रामाण्यं तद्विषये प्रत्यत्तस्य लौङ्गिकस्य चामत्तेः । प्रवृत्तौ वा प्रत्युत साधकत्वमेव न बाधकत्वमित्यलमतिप्रसंगेन ॥ तथा सौगतस्य प्रमाणसंख्याविरोधिविध्वस्तबाधं तर्काख्यमुपढौकत एव ॥ नचैतत्सत्यक्षेऽन्तर्भवति । साध्यसाधनयोर्व्याप्यव्यापकभावस्य साकल्येन प्रत्यक्षाविषयत्वात् ॥ न हि तदियतो व्यापारान्कर्तुं शक्नोति । अविचारकत्वात् सन्निहितविषयत्त्वाच ॥ नाप्यनुमाने, तस्यापि देशादिविषयविशिष्टत्वेन व्याप्त्यविषयत्वात् । तद्विषयत्वे वा प्रकृतानुमानान्तरविकल्पद्वयानतिक्रमात् ॥ तत्र प्रकृतानुमानेन व्याप्तिपतिपत्तावितरतराश्रयत्वप्रसङ्गः । व्याप्तौ हि प्रतिपन्नायामनुमानमात्मानमासादयति । तदास्मलाभे च व्याप्तिपतिपत्तिारेति अनुमानान्तरेणाविनाभावप्रतिपत्तावनवस्थाचमूरी परपक्षचमं चश्चमीति इति नानुमानगम्या व्याप्तिः॥ नापि संख्यापरिकल्पितैरागमोपमानार्थापत्यभावैः साकल्येनाविनाभावावगतिः । तेषां समयसंगृहीतसादृश्यान्यथाऽनन्यथाभूताभावविषयत्वेन व्याप्त्यविषयत्वात् । परैस्तथाऽनभ्युपगमाच्च । अथ प्रत्यक्षपृष्ठभाविविकल्पात् साकल्येन साध्यसाधनभावप्रतिपत्तेने प्रमाणान्तरं तदर्थ मृग्यमित्यपरः । सोऽपि न युक्तवादी-"विकल्पस्याध्यतगृहीतविषयस्य तदगृहीतविषयस्य वा तद्वयवस्थापकत्वम्" । आये पक्षे दर्शनस्येव तदनन्तरभाविनिर्णयस्यापि नियतविषयत्वेन व्याप्त्यगोचरत्वात् ।। द्वितीयपक्षेऽपि विकल्पद्वयमुपढौकत एव । तद्विकल्पज्ञानं प्रमाणमन्यथा वेति ? प्रथमपने प्रमाणान्तरमनुमन्तव्यं, प्रमाणद्वयेऽनन्तर्भावात् ॥ उत्तरपक्षे तु न ततोऽनुमानव्यवस्था ॥ न हि व्याप्तिज्ञानस्यामामाण्ये तत्पूर्वकमनुमानं प्रमाणमास्कन्दति सन्दिग्धादिलिङ्गादप्युत्पद्यमानस्य प्रामाण्यप्रसङ्गात् । ततो व्याप्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org