________________
प्रमेयरत्नमाला
१३ ज्ञानं सविकल्पमविसंवादकं च प्रमाणं प्रमाणद्वयादन्यदभ्युपगम्यमिति न सौगताभिमतप्रमाणसंख्यानियमः ॥ एतेनानुपलम्भात्कारणव्यापकानुपलम्भाच कार्यकारणव्याप्यव्यापकभावसंवित्तिरिति वदन्नपि प्रत्युक्तः । अनुपलम्भस्य प्रत्यक्षविषयत्वेन कारणाद्यनुपलम्भस्य च लिंगत्वेन तज्जनितस्यानुमानत्वात् प्रत्यक्षानुमानाभ्यां व्याप्तिग्रहणपक्षोपक्षिप्तदोषानुषंगात् ॥ एतेन प्रत्यक्षफलेनोहापोहविकल्पज्ञानेन व्याप्तिपतिपत्तिरित्यप्यपास्तम् । प्रत्यक्षफलस्यापि प्रत्यक्षानुमानयोरन्यतरत्वे व्याप्तेरविषयीकरणात् । तदन्यत्वे च प्रमाणान्तरत्वमनिवार्यमिति ॥ अथ व्याप्तिविकल्पस्य फलत्वान्न प्रामाण्यमिति न युक्तम् । फलस्याप्यनुमानलक्षणफलहेतुतया प्रमाणत्वाविरोधात् ॥ तथा सन्निकर्षफलस्यापि विशेषणज्ञानस्य विशेष्यज्ञानलक्षणफलापेक्षया प्रमाणत्वमिति न वैशेषिकाभ्युपगतोहापोहविकल्पः प्रमाणान्तरत्वमतिवर्तते । एतेन त्रिचतुःपञ्चषटप्रमाणवादिनोऽपि सांख्यातपादप्रभाकरजैमिनीयाः स्वप्रमाणसंख्यां न व्यवस्थापयितुं क्षमा इति प्रतिपादितमवगन्तव्यम् । उक्तन्यायेन स्मृतिप्रत्यभिज्ञानतर्काणां तदभ्युपगतप्रमाणसंख्यापरिपंथित्वादिति प्रत्यक्षतरभेदात् द्वे एव प्रमाणे इति स्थितम् ॥ अथेदानीं प्रथमप्रमाणभेदस्य स्वरूपं निरूपयितुमाह
विशदं प्रत्यक्षमिति ॥ ३ ॥ ____ ज्ञानमिति वर्तते । प्रत्यक्षमिति धर्मिनिर्देशः। विशदज्ञानात्मकं साध्यम् । प्रत्यक्षत्वादिति हेतुः ॥ तथाहि-प्रत्यक्षं विशदज्ञानात्मकमेव प्रत्यक्षत्त्वात् । यन्न विशदज्ञानात्मक तन्न प्रत्यक्षं, तथा परोक्षम् । प्रत्यक्षं च विवादापन, तस्माद्विशदज्ञानात्मकमिति ॥ प्रतिज्ञार्थंकदेशासिद्धो हेतुरिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा ? धर्मिधर्मसमुदायः प्रतिज्ञा । तदेकदेशो धर्मों धर्मी वा ? हेतुः प्रतिज्ञार्थंकदेशासिद्ध इति चेन धर्मिणो हेतुत्वे असिद्धवायोगात् । तस्य पक्षप्रयोगकालवद्धतुप्रयोगेऽप्यसिद्धत्वायोगात् ॥धर्मिणो हेतुत्वे अनन्वयदोष इति चेत् न विशेषस्य धर्मित्वात् । सामान्यस्य च हेतुत्वात् तस्य च विशेषेष्वनुगमो विशेषनिष्ठत्वात्सामान्यस्य ॥ अथ साध्यधर्मस्य हेतुत्वे प्रतिज्ञार्थैकदेशासिद्धत्वमिति तदप्यसम्मतम् । साध्यस्य स्वरूपेणैवासिद्धत्वात् ॥ न प्रतिज्ञार्थंकदेशासिद्धत्वेन तस्यासिद्धत्वं, धर्मिणा व्यभिचारात् ॥ सपक्षे वृत्त्यभावाद्धेतोरनन्वय इत्यप्यसत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org