________________
प्रमेयरत्नमाला सर्वभावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गारमङ्गीकुर्वतां तथागतानां सत्त्वादिहेतू. नामनुदयप्रसङ्गात् । विपक्षे बाधकप्रमाणाभावात् । पक्षव्यापकत्वाचान्वयवत्वं प्रकृतेऽपि समानम् ॥ इदानीं स्वोक्तमेव विशदत्वं व्याचष्टेप्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यमिति ॥४॥
एकस्याः प्रतीतेरन्या प्रतीतिः प्रतीत्यन्तरम् । तेनाव्यवधानं तेन प्रतिभासनं वैशद्यम् ॥ यद्यप्यवायस्यावग्रहेहाप्रतीतिभ्यां व्यवधानं, तथापि न परोक्षत्वं विषयविषयिणोर्भेदेनापतिपत्तेः ॥ यत्र विषयविषयिणोर्भेदे सति व्यवधानं तत्र परोक्षत्वम् । तानुमानाध्यक्षविषयस्यैकात्मग्राह्यस्याग्नेरभिन्नस्योपलम्भादध्यक्षस्य परोक्षतेति तदप्ययुक्तम् । भिन्नविषयत्वाभावात् ।। विसदृशसामग्रीजन्यभिन्न विषया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्यदिति न दोषः॥ न केवलमेतदेव । विशेषणवत्तया वा प्रतिभासनं सविशेषवर्णसंस्थानादिग्रहणं वैशद्यम् ॥ "तच्च प्रत्यक्षं द्वधा मुख्यसंव्यवहारभेदादिति" मनसि कृत्य प्रथमं सांव्यवहारिकप्रत्यक्षस्योत्पादिकां सामग्री तद्भेदं च पाह
इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकमिति ॥ ५॥ विशदं ज्ञानमिति चानुवर्तते । देशतो विशदं ज्ञानं सांव्यवहारिकमित्यर्थः समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारः तत्र भवं सांव्यवहारिकम् । भूयः किंभूतमिन्द्रियानिन्द्रियनिमित्तम् । इन्द्रियं चक्षुरादि, अनिन्द्रियं मनः ते निमित्तं कारणं यस्य । समस्तं व्यस्तं च कारणमभ्युपगन्तव्यम् ॥ इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातमिन्द्रियपत्यतम् , अनिन्द्रियादेव विशुद्धिसव्यपेक्षादुपजायमानमनिन्द्रियप्रत्यक्षम् ॥ तन्द्रियप्रत्यक्षमवग्रहादिधारणापर्यन्ततया चतुर्विधमपि बहादिद्वादशभेदमष्टचत्वारिंशत्संख्यं प्रतीन्द्रियं प्रतिपत्तव्यम् । अनिन्द्रियप्रत्यक्षस्य चोक्तमकारेणाष्टचत्वारिंशद्भदेन मनोनयनरहितानां चतुर्णामपीन्द्रियाणां व्यञ्जनावग्रहस्याष्टचत्वारिंशद्भेदेन च समुदितस्यन्द्रियानिन्द्रियप्रत्यक्षस्य पत्रिंशदुत्तरा त्रिंशती संख्या प्रतिपत्तव्या ॥ ननु स्वसंवेदनभेदमन्यदपि प्रत्यक्षमस्ति, तत्कथं नोक्तमिति न वाच्यम् । तस्य सुखादिज्ञानस्वरूपसंवेदनस्य मानसप्रत्यक्षत्वात् । इन्द्रियज्ञानस्वरूपसंवेदनस्य चेन्द्रियसमक्षत्वादन्यथा तस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org