________________
१५
प्रमेयरत्नमाला स्वव्यवसायायोगात् ॥ स्मृत्यादिस्वरूपसंवेदनं मानसमेवेति नापरं स्वसंवेदनं नामाध्यक्षमस्ति ॥ ननु प्रत्यक्षस्योत्पादकं कारणं वदता ग्रन्थकारेणेन्द्रियानिन्द्रियवदर्थालोकावपि किं न कारणत्वेनोक्तो ? तदवचने कारणानां साकल्यस्यासंग्रहाद्विनेयव्यामोह एव स्यात् । तदियत्ताऽनवधारणात् । न च भगवतः परमकारुणिकस्य चेष्टा तव्यामोहाय प्रभवतीत्याशङ्कायामुच्यते
नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत् ॥ ६ ॥ सुगममेतत् ॥ ननु बाह्यालोकाभावं विहाय तमसोऽन्यस्याभावात् साधनविकलो दृष्टान्त इति । नैवम् । एवं सति वा ह्यालोकस्यापि तमोभावादन्यस्यासम्भवात्तेजोद्रव्यस्यासम्भव इति विस्तरेणैतदलङ्कारे प्रतिपादितं बोद्धव्यम् । अत्रैव साध्ये हेत्वन्तरमाह--
तदन्वयव्यतिरेकानुविधानाभावाच ।
केशोण्डुकज्ञानवन्नक्तंचरज्ञानवच्च ॥ ७ ॥ अत्र व्याप्तिः । यद्यस्यान्वयव्यतिरेको नानुविदधाति न तत्तत्कारणकं, यथा केशोएडुकज्ञानं, नानुविधत्ते च ज्ञानमर्थान्वयव्यतिरेकाविति । तथा आलोकेऽपि । एतावान् विशेषस्तत्र नक्तंचरदृष्टान्त इति । नक्तंचरा मार्जारादयः ननु विज्ञानमर्थजनितमर्थाकारं चार्थस्य ग्राहकम् । तदुत्पत्तिमन्तरेण विषयं प्रति नियमायोगात् । तदुत्पत्तेरालोकादावविशिष्टत्त्वात्ताद्र प्यसहिताया एव तस्यास्तं प्रति नियमहेतुत्त्वात् भिन्नकालत्वेऽपि ज्ञानज्ञेययोर्ग्राह्यग्राहकभावाविरोधात्॥तथाचोक्तम्-भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः। हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् ॥ इत्याशङ्कायामिदमाह--
अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् ॥८॥ अर्थाजन्यमप्यर्थप्रकाशकमित्यर्थः । अतजन्यत्वमुपलक्षणम् । तेनातदाकारमपीत्यर्थः । उभयत्रापि प्रदीपो दृष्टान्तः । यथा प्रदीपस्यातज्जन्यस्याऽतदाकारधारिणोऽपि तत्प्रकाशकत्त्वं, तथा ज्ञानस्यापीत्यर्थः ।। ननु यद्यर्थादजातस्यार्थरूपाननुकारिणो ज्ञानस्यार्थसाक्षात्कारित्वं तदा नियतदिग्देशकालवर्तिपदार्थप्रकाशप्रतिनियमे हेतोरभावात्सर्व विज्ञानमप्रतिनियतविषयं स्यादिति शङ्कायामाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org