________________
प्रमेयरत्नमाला ॥ स्वावरणक्षयोपशमलक्षणयोग्यतया हि
प्रतिनियतमर्थ व्यवस्थापयति ॥ ६ ॥ स्वानि च तान्यावरणानि च स्वावरणानि तेषां क्षय उदयाभावः । तेषामेव सदवस्था उपशमः तावेव लक्षणं यस्या योग्यतायास्तया हेतुभूतया प्रतिनियतमर्थ व्यवस्थापयति प्रत्यक्षमिति शेषः। हि यस्मादर्थे । यस्मादेवं ततो नोक्तदोष इत्यर्थः ॥ इदमत्र तात्पर्यम्- कल्पयित्वाऽपि ताद्र,प्यं तदुत्पत्तिं तदध्यवसायं च योग्यताऽवश्याऽभ्युपगन्तव्या । ताद्र प्यस्य समानाथै स्तदुत्पत्तेरिन्द्रियादिभिस्तद्वयस्यापि समानार्थसमनन्तरप्रत्ययस्तत्रितयस्यापि शुक्ले शंखे पीताकारज्ञानेन व्यभिचाराद्योग्यताश्रयणमेव श्रेय इति।।एतेन यदुक्तं परेण-"अर्थेन घटयत्येनां नहि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपतेति" तन्निरस्तम् ॥ समानार्थीकारनानाज्ञानेषु मेयरूपतायाः सद्भावात् ॥ न च परेषां सारूप्यं नामास्ति वस्तुभूतमिति योग्यतयैवार्थप्रतिनियम इति स्थितम् ॥ इदानीं कारणत्वात्परिच्छेद्योऽर्थ इति मतं निराकरोति
कारणस्य च परिच्छेद्यत्वे करणादिना
व्यभिचार इति ॥१०॥ करणादिकारणं परिच्छेद्यमिति तेन व्यभिचारः । न ब्रमः कारणवात्परिच्छेद्यत्वमपि तु परिच्छेद्यत्त्वात्कारणत्वमिति चेन्न । तथापि केशोण्डुकादिना व्यभिचारात् ॥ इदानीमतीन्द्रियप्रत्यक्षं व्याचष्टे--
सामग्रीविशेषविश्लेषिताखिलावरणमतीन्द्रियमशेषतो मुख्यम् ॥ ११ ॥ सामग्री द्रव्यक्षेत्रकालभावलक्षणा, तस्या विशेषः समग्रतालक्षणः । तेन विश्लेषितानि अखिलान्यावरणानि येन तत्तथोक्तम् । किं विशिष्टं ? अतीन्द्रियमिन्द्रियाण्यातक्रान्तम् । पुनरपि कीदृशमशेषतः सामस्त्येन विशदम् । अशेषतो वैशये किं कारणमिति चेत्- प्रतिबन्धाभाव इति ब्रमः। तत्रापि किं कारणमिति चेत्-अतीन्द्रियत्वमनावरणत्वं चेति ब्रमः॥ एतदपि कुत इत्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org