________________
पमेयरनमाला सावरणत्वे करण जन्यत्वे च प्रतिबन्धसम्भवात् ॥ १२ ॥ नन्ववधिमनःपर्यययोरनेनासंग्रहादव्यापकमेतल्लक्षणमिति न वाच्यम् । तयोरपि स्वाविषयेऽशेषतो विशदत्वादिधर्मसम्भवात् । न चैवं मतिश्रुतयोरित्यतिव्याप्तिपरिहारः । तदेतदतीन्द्रियमवधिमनःपर्ययकेवलप्रभेदात्रिविधमपि मुख्यं प्रत्यक्षमात्मसनिधिमात्रापेक्षत्वादिति ॥ नन्वशेषविषयविशदावभासि ज्ञानस्य तद्वतो वा प्रत्यक्षादिप्रमाणपञ्चकाविषयत्वेनाभावप्रमाणविषमविषधरविध्वस्तसत्ताकत्वात् कस्य मुख्यत्वम् ? तथाहि- नाध्यक्षमशेषज्ञविषयं, तस्य रूपादिनियतगोचरचारित्वात् सम्बद्धवर्तमानविषयत्वाच ॥ न चाशेषवेदी सम्बद्धो वर्तमानश्चेति । नाप्यनुमानात्तत्सिद्धिः । अनुमानं हि गृहीतसम्बन्धस्यैकदेशदर्शनादसनिकृष्ट बुद्धिः ॥ न च सर्वज्ञसद्भावाविनाभाविकार्यलिङ्गं स्वभावलिङ्ग वा सम्पश्यामः । तद्ञप्तेः पूर्व तत्स्वभावस्य तत्कार्यस्य वा तत्स्वभावाविनाभाविनो निश्चेतुमशक्तः ॥ नाप्यागमातत्सद्भावः । स हि नित्योऽनित्यो वा तत्सद्भावं भावयेत् । न तावन्नित्यःतस्यार्थवादरूपस्य कर्मविशेषसंस्तवनपरत्वेन पुरुषविशेषावबोधकत्वायोगात् ॥ अनादेरागमस्यादिमत्पुरुषवाचकत्वाघटनाच ॥ नाप्यनित्य आगमः सर्वक्षं साधयति । तस्यापि तत्मणीतस्य तनिश्चयमन्तरेण प्रामाण्यानिश्चयादितरेतराश्रयत्वाच ॥ इतरमणीतस्य त्वनासादितप्रमाणभावस्याशेषज्ञमरूपणपरत्वं नितरामसम्भाव्यमिति सर्वज्ञसदृशस्यापरस्य ग्रहणासम्भवाच नोपमानम् । अनन्यथाभूतस्यार्थस्याभावान्नार्थापत्तिरपि सर्वज्ञावबोधिकेति धर्माधुपदेशस्य व्यामोहादपि सम्भवात् ॥ द्विविधो ह्यु पदेशः सम्यंमिथ्योपदेशभेदात् । तत्र मन्वादीनां सम्यगुपदेशो यथार्थज्ञानोदयवेदमूलत्वात् । बुद्धादीनां तु व्यामोहपूर्वकः तदमूलत्वात् तेषामवेदार्थनत्वात् ॥ ततः प्रमाणपञ्चकाविषयत्वादभावप्रमाणस्यैव प्रवृत्तिस्तेन चाभाव एव ज्ञायते । भावांशे प्रत्यक्षादिप्रमाणपञ्चकस्य व्यापारादिति ॥ अत्र प्रतिविधीयते । यत्तावदुक्तम्- प्रत्यक्षादिप्रमाणाविषयत्वमशेषज्ञस्येति तदयुक्तं, तद्ग्राहकस्यानुमानस्य सम्भवात् ॥ तथाहि- कश्चित्पुरुषः सकलपदार्थसाक्षात्कारी । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धपत्ययत्वात् । यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणमतिबन्धप्रत्ययं तत्तत्साक्षात्कारि । यथाऽपगततिमिरं लोचनं रूपसाक्षात्कारि॥ तद्ग्रहणस्वभावत्वे सति प्रक्षीणपतिबन्धप्रत्ययश्च विवादा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org