________________
प्रमेयरत्नमाला पन्नः कश्चिदिति सकलपदार्थग्रहणस्वभावत्वं नात्मनोऽसिद्धं चोदनातः सकलपदार्थपरिज्ञानस्यान्यथायोगादन्धस्येवादर्शाद्र पप्रतिपत्तेरिति॥व्याप्तिज्ञानोत्पत्तिबलाचाशेषविषयज्ञानसम्भवः केवलं वैशये विवादः। तत्र चावरणापगम एव कारणं रजोनीहाराघातार्थज्ञानस्येव तद गम इति ॥ प्रक्षीणप्रतिबन्धप्रत्ययत्वं कथमिति चेदुच्यते-दोषावरणे कचिन्निर्मूलं प्रलयमुपव्रजतः प्रकृष्यमाणहानिकत्वात् । यस्य प्रकृष्यमाणहानिः स कचिन्निर्मुलं प्रलयमुपव्रजति । यथाऽग्निपुटपाकापसारितकिट्टकालिकाधन्तरङ्गबहिरङ्गमलद्वयात्मनि हेनि मलमिति निर्हासातिशयवती च दोषावरणे इति ॥ कथं पुनर्विवादाध्यासितस्य ज्ञानस्यावरणं सिद्धं १ प्रतिषेधस्य विधिपूर्वकत्वात् इति ॥ अत्रोच्यते-विवादापन्नं ज्ञानं सावरणं, विशदतया स्वविषयावबोधकत्वाद्रजोनीहाराधन्तरितार्थज्ञानवदिति ॥ न चात्मनोऽमर्त्तत्वादावारकावृत्त्ययोगः। अमूर्तीया अपि चेतनाशक्तर्मदिरामदनकोद्रवादिभिरावरणोपपत्तेः ॥ न चेन्द्रियस्य तैरावरणं, इन्द्रियाणामचेतनानामप्यनातप्रख्यत्वात् । स्मृत्यादिप्रतिबन्धायोगात्॥नापि मनसस्तैरावरणमात्मव्यतिरकेणापरस्य मनसो निषेत्स्यमानत्वात् । ततो नामूर्त. स्यावरणाभावः ॥ अतो नासिद्धं तद्ग्रहणस्वभावत्ये सति प्रक्षीणपतिबन्धमत्ययत्वम् । नापि विरुद्धं विपरीतनिश्चिताविनाभावात् । नाप्यनैकान्तिकं देशतः सामस्त्येन वा विपक्षे वृत्यभावात । विपरीतार्थोपस्थापकप्रत्यक्षागमासम्भवान कालात्ययापदिष्टत्वम् । नापि सत्पतिपक्षं प्रतिपक्षसाधनस्य हेतोरभावात् ॥ अथेदमस्त्येव विवादापन्नः पुरुषो नाशेषज्ञो वक्तृत्वात्पुरुषत्वात्पाण्यादिमत्वाच्च । रथ्यापुरुषवदिति ॥ नैतचारु वक्तस्वादेरसम्यग्घेतुत्वात् ॥ वक्तृत्वं हि दृष्टेष्टविरुद्धार्थवक्तृत्वं तदविरुद्धवक्तृत्वं वक्तृत्वसामान्यं वा गत्यन्तराभावात् ॥ न तावत् प्रथमः पक्षः सिद्धसाध्यतानुषङ्गात् । नापि द्वितीयः पक्षः विरुद्धत्वात् । तदविरुद्धवक्तत्वं हि ज्ञानातिशयमन्तरेण नोपपद्यत इति ॥ वक्तृत्वसामान्यमपि विपक्षाविरुद्धत्वान्न प्रकृतसाध्यसाधनायालं, ज्ञानप्रकर्षे वक्तृत्वापकर्षादर्शनात्मत्युत ज्ञानातिशयवतो वचनातिशयस्यैव सम्भवात् ॥ एतेन पुरुषत्वमपि निरस्तं-पुरुषत्वं हि रागादिदोषसितं, तदा सिद्धसाध्यता, तददृषितं तु विरुद्धं वैराग्यज्ञानादिगुणयुक्तपुरुषत्वस्याशेषज्ञत्वमन्तरेणायोगात ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org