________________
मेयरत्नमाला
पुरुषत्वसामान्यं तु सन्दिग्धविपत्तव्यावृत्तिकमिति सिद्धं सकलपदार्थसातात्कारित्वं कस्यचित्पुरुषस्य । अतोऽनुमानादिति न प्रमाणपञ्चकाविषयत्वमशेषज्ञस्य ।। अथास्मिन्ननुमानेऽर्हतः सर्ववित्त्वमनईतो वा १ | अनईतश्चेदर्हद्वाक्यप्रमाणं स्यात् । तथेत्सोऽपि न श्रुत्या सामर्थ्येन वाडवगन्तुं पार्यते । स्वशक्त्या दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि तुल्यवृत्तित्वादिति । तदेतत्परेषां स्वववाय कृत्योत्थापनं, एवंविधविशेषप्रश्नस्य सर्वज्ञ सामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञत्वमित्येवं वक्तव्यम् । प्रसिद्धानुमानेऽप्यस्य दोषस्य सम्भवेन, जात्युत्तरत्वाच्च ॥ तथाहि - नित्यः शब्दः प्रत्यभिज्ञायमानत्वादित्युक्ते व्यापकः शब्दो नित्यः प्रसाध्यते व्यापको वा १ यद्यव्यापकः तदा व्यापकत्वे नोपकल्प्यमानो न कश्चिदर्थे पुष्णाति । अथ व्यापकः सोऽपि न । श्रुत्या सामर्थ्येन asard | स्वशक्त्या दृष्टान्तानुग्रहेण वा । पक्षान्तरेऽपि तुल्यवृत्तित्वादिति ॥ सिद्धमतो निर्दोषात्साधनादशेषज्ञत्वमिति । यच्चाभावप्रमाणकवलितसत्ता त्वमशेषज्ञस्येति तदयुक्तमेवानुमानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपञ्चकाभावमलस्याभावप्रमाणस्योपस्थापनायोगात् "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽज्ञानपेक्षया" इति च भावत्कं दर्शनम् । तथा च कालत्रयत्रिलोकलक्षणवस्तुसद्भावग्रहऽन्यत्रान्यदा गृहीतस्मरणे च सर्वज्ञनास्तिताज्ञानमभावप्रमाणं युक्तम् । नापरथा । न च कस्यचिदवग्दर्शिन खिजगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वतत्वं हि चेतोधर्मतयातीन्द्रियं तदपि न प्राकृतपुरुषविषयमिति कथमभावप्रमाणमुदयमासादयेत् । सर्वज्ञस्य तदुत्पाद सामग्रया असंभवात् । सम्भवे वा तथाज्ञातुरेव सर्वज्ञत्वमिति । अत्राधुना तदभावसाधनमित्यपि न युक्तं सिद्धसाध्यतानुषंगात् । ततः सिद्धं मुख्यमतीन्द्रियज्ञानमशेषतो विशदम् | सार्वज्ञज्ञानस्यातीन्द्रियत्वादश्रुत्यादिदर्शनं तद्रसास्वादनदोषोऽपि परिहृत एव ॥ कथमतीन्द्रियज्ञानस्य वैशद्यमिति चेत् । यथा सत्यस्वमज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि भावना बलादतदेशवस्तुनोऽपि विशददर्शनमिति । पिहिते कारागारे तमसि च सूचीमुखाग्रदुर्भेद्ये ॥ मयि च निमीलितनयने तथापि कान्ताननं व्यक्तमिति बहुलमुपलम्भात् ॥ ननु च नावर्णविश्लेषादशेषज्ञत्वमपि तु तनुकरणभुवनादिनिमित्तत्वेन । न चात्र
Jain Education International
For Personal & Private Use Only
१६
www.jainelibrary.org