________________
भमेयरत्नमाला तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्धमनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहिविमत्यधिकरणभावापन्नं उर्वीपर्वततरुतन्वादिकं बुद्धिमद्धे तुकं कार्यत्वादचेतनोपादानत्वात्सन्निवेशविशिष्टत्वाद्वा वस्त्रादिवदिति । आगमोऽपि तदावेदकः श्रूयते- “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वत:पात् । सम्बाहुभ्यां धमति सम्पतत्रैवाभूमी जनयन्देव एकः" तथा व्यासवचनं च "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरपोरतो गच्छेस्वर्ग वा श्वभ्रमेव वा॥१॥" न चाचेतनैरेव परमाण्वादिकारणैः पर्याप्तवाद्बुद्धिमतः कारणस्यानर्थक्यम् । अचेतनानां स्वयंकार्योत्पत्ती व्यापारायोगात्तुर्यादिवत् । न चैवं चेतनस्यापि चेतनान्तरपूर्वकत्वादनवस्था । तस्य सकलपुरुषज्येष्ठत्वानिरतिशयत्वात्सर्वज्ञवीजस्य क्लेशकर्मविपाकाशयरपरामृष्टत्वादनादिभूतानश्वरज्ञानसम्भवाच्च ॥ यदाह पतञ्जलि:-- "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः सर्वज्ञः स पूर्वेषामपि गुरुः कालेनाविच्छेदादि" ति च "ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिर्निसर्गजनिता वशितेन्द्रियेषु ॥ आत्यन्तिकं सुखमनावरणा च शक्ति न च सर्वविषयं भगवंस्तवैव" इत्यवधूतवचनाच्च ॥ न चात्र कार्यत्वमसिद्धम् । सावयवत्वेन कार्यत्वसिद्धेः॥ नापि विरुद्धं, विपक्ष एव वृत्त्यभावात् ॥ नाप्यनक्रान्तिकं, विपक्षे परमाएवादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिबन्धनस्य साधनान्तरस्याभावान्न प्रकरणसमम् ॥ अथ तन्वादिकं बुद्धिमद्धेतुकं न भवति दृष्टकर्तृकप्रासादादिविलक्षणवादाकाशवदित्यस्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं, हेतोरसिद्धत्वात् । सन्निवेशविशिष्टत्वेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् ॥ अथ यादृशः प्रासादादौ सन्निवेशविशेषो दृष्टो न तादृशस्तन्वादाविति चेन्न सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयसनिवेशो हि सातिशयं कर्तारं गमयति प्रासादादिवत् । न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमनिमित्तेतरत्वसिद्धिः । कृत्रिमैमणिमुक्ताफलादिभिर्व्यभिचारात् ॥ एतेनाचेतनोपादानत्वादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धतुकत्वं ततश्च सर्ववे. दित्वमिति ॥ तदेतत्सर्वमनुमानमुद्राद्रविणदरिद्रवचनमेव कार्यत्वादेरसम्य. ग्धेतुत्वेन तजनितज्ञानस्य मिथ्यारूपत्वात् । तथाहि- कार्यत्वं स्वकारण. सत्तासमवायः स्यादभूत्वाभावित्वमक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वं कारणव्यापारानुविधायित्वं वास्याद्गत्यन्तराभावात् । अथायः पतस्तदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org