________________
प्रमेयरनमाला
योगिनामशेष कर्मक्षये पक्षान्तःपातिनि तौ कार्यत्वलक्षणस्यामवृत्तेर्भागासिद्धत्वम् ।। न च तत्र सत्तासमवायः स्वकारणसमवायो वा समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवाययोरभावात् सत्ताया द्रव्यगुणक्रियाधारत्वाभ्यनुज्ञानात् समवायस्य च परैर्द्रव्यादिपञ्चपदार्थवृत्तित्वाभ्युपगमात् || अथाभाव परित्यागेन भावस्यैव विवादाध्यासितस्य पक्षीकरणान्नायं दोषः प्रवेशभागिति चेत् तर्हि मुक्त्यर्थिनां तदर्थमीश्वराराधनमनर्थकमेव स्यात् । तत्र तस्याकिञ्चित्करत्वात् सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धं च कार्यत्वम् ॥ स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा ? यद्युत्पन्नानां सतामसतां वा १ न तावदसतां खरविषाणादेरपि तत्प्रसङ्गात् । सतां चेत् सत्तासमवायात्स्वतो वा १ न तावत्सत्तासमवायादनवस्थाप्रसङ्गात् प्रागुक्तविकल्पद्वयाऽनतिवृत्तेः । स्वतः सतां तु सत्तासमवायानर्थक्यम् ।। अथोत्पद्यमानानां सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्वाभ्युपगमादिति मतम् । तदा सत्तासम्बन्ध उत्पादाद्भिन्नः किं वा अभिन्न इति । यदि भिन्नस्तदोत्पत्तेरसत्वाविशेषादुत्पत्त्यभावयोः किं कृतो भेदः। अथोत्पत्तिसमाक्रान्तवस्तुसत्त्वेनोत्पत्तिरपि तथा व्यपदिश्यते इति मतम् । तदपि अति जाड्यवल्गितमेव । उत्पत्तिसत्त्वप्रतिविवादे वस्तुसच्वस्यातिदुर्घ टत्वात् । इतरेतराश्रयदोषश्च । इत्युत्पत्तिसत्त्वे वस्तुनि तदेककालीनसत्तासम्बन्धावगमस्तदवगमे च तत्रत्यसत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतद्दोषपरिजिहीर्षया तयोरैक्यमभ्यनुज्ञायते, तर्हि तत्सम्बन्ध एव कार्यत्वमिति । ततो बुद्धिमद्धेतुकत्वे गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि चिन्तितः ।। अथोभयसम्बन्धो कार्यत्वमिति मतिः सापि न युक्ता । तत्सम्बन्धस्यापि कादाचित्कत्वे समवायस्यानित्यत्वप्रसङ्गात् घटादिवत् अकादाचित्त्वे सर्वदोपलम्भप्रसङ्गः ॥ अथ वस्तूत्पादककारणानां सन्निधानाभावान्न सर्वदोपलम्भप्रसङ्गः ॥ ननु वस्तुत्पत्त्यर्थं कारणान्तं व्यापारः । उत्पादश्च स्वकारणसत्तासमवायः स च सर्वदाप्यस्ति इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि वार्त्त वस्तूत्पादापेक्षया अभिव्यक्रघटनात् । वस्त्वपेक्षयाऽभिव्यक्तौ कारणसम्पातात्प्रागपि कार्यवस्तुसद्भावप्रसङ्गात् । तल्लक्षणत्वाद्वस्तुसत्वस्य प्राक् सत एव हि केनचित् तिरोहितस्याभिव्यञ्ज केनाभिव्यक्तिस्तमस्तिरोहितस्य घटस्येव प्रदीपा
Jain Education International
For Personal & Private Use Only
२१
www.jainelibrary.org