Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 309
________________ प्रमेयरत्नमाला तत्वं हेतुरन्यत्रान्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नातीति स्वेष्टविघातकारित्वाद्विरुद्धः । अन्वितत्वमेकहेतुके घटादावनकहतुके स्तम्भकुम्भाम्भोरुहादावप्युपलभ्यत इत्यनैकान्तिकश्च । किमर्थं चेदं कार्यमसौ विदधाति ? अन्येन प्रयुक्तत्वात् कृपावशात् क्रीडावशात् स्वभावाद्वा ? अन्येन प्रयुक्तत्वे स्वातन्व्यहानिद्वैतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृपायां दुःखिनामकारुणपसङ्गात् । परोपकारकरणनिष्ठत्वात्तस्याःसृष्टेः प्रागनुकम्पाविषयमाणिनामभावाच न सा युज्यते । कृपापरस्य प्रलयविधानायोगाच्च ॥ अदृष्टवशात्तद्विधाने स्वातन्त्र्यहानिः कृपापरस्य पीडाकारणादृष्टव्यपेक्षायोगाच्च ॥ क्रीडावशात्मवृत्तौ न प्रभुत्वं क्रीडोपायव्यपेक्षणाबालकवत् । क्रीडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थे कारणे कार्यस्यावश्यम्भावात् ।। अन्यथा क्रमेणापि सा ततो न स्यात् ॥ अथ स्वभावादसौ जगनिर्मिनोति यथाग्निर्दहति वायुयंतीति मतं, तदपि बालभाषितमेव पूर्वोक्तदोषानिवृत्तेः ॥ तथाहि- क्रमवर्तिविवर्तजातमखिलमपि युगपदुत्पद्येत । अपेतणीयस्य सहकारिणोऽपि तत्साध्यत्वेन यौगपद्यसम्भवात् उदाहरणवैषम्यं च। वहयादेः कादाचित्कस्य हेतुजनितस्य नियतशक्त्यात्मकत्वोपपत्तेरन्यत्र नित्यव्यापिसमर्थैकस्वभावकारणजन्यत्वेन देशकालप्रतिनियमस्य कार्ये दुरुपपादात् ॥ तदेवं ब्रह्मणोऽसिद्धौ वेदानां तत्सुप्तप्रबुद्धावस्थात्वप्रतिपादनं परमपुरुषाख्यमहाभूतनि:श्वसिताभिधानं च गगनारबिन्दमकरन्दव्यावर्णनवदनवधेयार्थविषयत्वादुपेक्षामर्हति ॥ यच्चागमः प्रमाणं 'सर्व वै खाल्वदं ब्रह्मे"त्यादि "ऊर्णनाभ" इत्यादि च तत्सर्वमुक्तविधिना अद्वैतविरोधीति नावकाशं लभते ॥ न चापौरुषेय आगमोऽस्तीत्यग्रे प्रपञ्चयिष्यते । तस्मात्र पुरुषोत्तमोऽपि विचारणां पाश्चति ॥ प्रत्यक्षतरभेदभिन्नममलं मानं द्विधैवोदितं देवैर्दीप्तगुणैर्विचार्य विधिवत्संख्याततेः संग्रहात् । मानानामिति तद्दिगप्यभिहितं श्रीरत्ननन्याहयैस्तद्वयाख्यानमदो विशुद्धधिषणैर्बोद्धव्यमव्याहतम् ॥ १ ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभापितं मया ॥२॥ इति परीक्षामुखस्य लघुवृत्तौ द्वितीयः समुद्देशः ॥ २॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362