Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 308
________________ ममेयरवमाला किश्चन ॥ आरामं तस्य पश्यन्ति न तं पश्यति कश्चन ।। " इति श्रुतेश्व ॥ ननु परब्रह्मण एव परमार्थसत्त्वे कथं घटादिभेदोऽवभासत इति न चोद्यम् । सर्वस्यापि तद्विवर्ततयावभासनात् । न चाशेषभेदस्य तद्विवर्तत्वमसिद्धं प्रमाणप्रसिद्धत्वात् । तथाहि -विवादाध्यासितं विश्वमेककारणपूर्वक मेकरूपान्वितत्वात् । घटघटीसरावोदञ्चनादीनां मृदूपान्वितानां यथा मृदेककारणपूर्वकत्वं सद्रूपेणान्वितं च निखिलं वस्त्विति । तथाऽगमोऽप्यस्ति" ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव सक्षः स हेतुः सर्वजन्मनामि" ति ॥ तदेतन्मदिरा रसास्वादगगदोदितमिव मदनकोद्रवाद्युपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते विचा रासहत्वात् । तथा हि- यत्मत्यक्ष सत्ताविषयत्वमभिहितं तत्र किं निर्विशेष सत्ताविषयत्वं सविशेषसत्तावबोधकत्वम् वा १ । न तावत्पौरस्त्यः पक्षः । सत्तायाः सामान्यरूपत्वात् । विशेषनिरपेक्षतयाऽनवभासनात् । शाबलेयादिविशेषानवभासने गोत्वाऽनवभासनवत् ।। निर्विशेषं हि सामान्यं भवेच्छशविषाणवादित्यभिधानात् ॥ सामान्यरूपत्वं च सत्तायाः सत्सदित्यन्वयबुद्धिविषयत्वेन सुप्रसिद्धमेव ॥ अथ पाश्चात्यः पक्षः कक्षीक्रीयते, तदा न परमपुरुषसिद्धिः । परस्परव्यावृत्ताकारविशेषाणामध्यक्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु, विचारासहत्वात् ॥ तथाहि प्रतिभासमानत्वं स्वतः परतो वा १ न तावत्स्वतोऽसिद्धत्वात् । परतश्चेद्विरुद्धम् । परतः प्रतिभासमानत्वं हि परं विना नोपपद्यते प्रतिभासनमात्रमपि न सिद्धिमधिवसति । तस्य तद्विशेषणान्तरीयकत्वात्तद्विशेषाभ्युपगमे च द्वैतप्रसक्तिः || किश्च धर्मिहेतुदृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्षे प्रतिभासान्तः प्रविष्टाः प्रतिभासबहिर्भूता वा । यद्याथः पक्षस्तदा साध्यान्तः पातित्वान्न ततोऽनुमानम् । तद्वहिर्भावे तैरेव हेतोर्व्यभि - चारः || अप्रतिभासमानत्वेऽपि सद्व्यवस्थाभावात् ततो नानुमानमिति || अथानाद्यविद्याविजृम्भितत्वात्सर्वमेतद् सम्बद्धमित्य नल्पतमो विलसितम् । श्रविद्यायामप्युक्तदोषानुषङ्गात् । सकलविकल्पविकलत्वात्तस्या नैष दोष इत्यप्यतिमुग्धभाषितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तत्स्वरूपानवधारणात् ।। अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह प्रतन्यते ।। यच्च परमब्रह्मविवर्त्तत्वमखिलभेदानामित्युक्तम् । तत्राप्येक रूपेणान्वि 1 २४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362