Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown
View full book text
________________
प्रमेयरत्नमाला दिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न स्वकारणसत्तासम्बन्धः कार्यत्वम् । नाप्यभूत्वाभावित्वम् । तस्यापि विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्ध सिद्धिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भुक्त्वा व्रजतीत्यादिवाक्यार्थवत् ॥ न चात्र भवनाभवनयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्यायमात्रेणैव भेदो न वास्तव इति ॥ अस्तु वा यथाकथंचिदभूत्वाभावित्वं, तथापि तन्वादौ सर्वत्रानभ्युपगमाद्भागासिद्धम् । न हि महीमहीधराकूपारारामादयः प्रागभूत्वाभवन्तोऽभ्युपगम्यन्ते परैः। तेषां तैः सर्वदावस्थानाभ्युपगमात् ॥ अथ सावयवत्वेन तेषामपि सादित्वं प्रसाध्यते, तदप्याशिक्षितलक्षितम् । अवयवेषु वृत्तेरवयवैरारभ्यत्वेन च सावयवत्वानुपपत्तेः॥ प्रथमपक्षे सावयवसामान्येनानेकान्तात् । द्वितीयपक्षे साध्याविशिष्टत्वात् ॥ अथ सनिवेश एव सावयवत्वं तच्च घटादिवत् पृथिव्यादावुपलभ्यते इत्यभूत्वाभावित्वमभिधीयते तदप्यपेशलम् । सनिवेशस्यापि विचारासहत्वात् । स ह्यवयवसम्बन्धो भवेद्रचनाविशेषो वा । यद्यवयवसम्बन्धस्तदा गगनादिनानेकान्तः सकलमूर्तिमद्रव्यसंयोगनिबन्धनप्रदेशनानात्वस्य सद्भावात् । अथोपचरिता एव तत्र प्रदेशा इति चेत् तर्हि सकलमूर्तिमव्यसम्बन्धस्याप्युपचरितत्वात्सर्वगतत्वमप्युपचरितं स्यात् । श्रोत्रस्यार्थक्रियाकारित्वं च न स्यात् । उपचरितप्रदेशरूपत्वात् ॥ धर्मादिना संस्कारात्ततः सेत्ययुक्तम् । उपचरितस्यासद्र पस्य तेनोपकारायोगात् । खरविषाणस्येव ततो न किश्चिदेतत् ॥ अथ रचनाविशेषस्तदा परम्प्रतिभागासिद्धत्वं तदवस्थमेवति नाभूत्वाभावित्वं विचारं सहते ॥ नाप्यक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वम् । तद्धि कृतसमयस्याकृतसमयस्य वा भवेत् ।। कृतसमयस्य चेत् गगनादेरपि बुद्धिमद्धेतुकत्वं स्यात् । तत्रापि खननोत्सेचनात् कृतमिति गृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्येति चेत् भवदीयापि किं न स्यात् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चान्यत्रापि समानत्वात् । प्रत्यक्षेणोभयत्रापि कर्तुरग्रहणात् ॥ नित्यादिकं बुद्धिमहेतुकं न भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्वात् गगनादिवदिति प्रमाणस्य साधारणत्वात् । तत्र कृतसमयस्य कृतबुद्ध्युत्पादकत्वम् ॥ नाप्यकृत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362