Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 304
________________ भमेयरत्नमाला तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्धमनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहिविमत्यधिकरणभावापन्नं उर्वीपर्वततरुतन्वादिकं बुद्धिमद्धे तुकं कार्यत्वादचेतनोपादानत्वात्सन्निवेशविशिष्टत्वाद्वा वस्त्रादिवदिति । आगमोऽपि तदावेदकः श्रूयते- “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वत:पात् । सम्बाहुभ्यां धमति सम्पतत्रैवाभूमी जनयन्देव एकः" तथा व्यासवचनं च "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरपोरतो गच्छेस्वर्ग वा श्वभ्रमेव वा॥१॥" न चाचेतनैरेव परमाण्वादिकारणैः पर्याप्तवाद्बुद्धिमतः कारणस्यानर्थक्यम् । अचेतनानां स्वयंकार्योत्पत्ती व्यापारायोगात्तुर्यादिवत् । न चैवं चेतनस्यापि चेतनान्तरपूर्वकत्वादनवस्था । तस्य सकलपुरुषज्येष्ठत्वानिरतिशयत्वात्सर्वज्ञवीजस्य क्लेशकर्मविपाकाशयरपरामृष्टत्वादनादिभूतानश्वरज्ञानसम्भवाच्च ॥ यदाह पतञ्जलि:-- "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषः सर्वज्ञः स पूर्वेषामपि गुरुः कालेनाविच्छेदादि" ति च "ऐश्वर्यमप्रतिहतं सहजो विरागस्तृप्तिर्निसर्गजनिता वशितेन्द्रियेषु ॥ आत्यन्तिकं सुखमनावरणा च शक्ति न च सर्वविषयं भगवंस्तवैव" इत्यवधूतवचनाच्च ॥ न चात्र कार्यत्वमसिद्धम् । सावयवत्वेन कार्यत्वसिद्धेः॥ नापि विरुद्धं, विपक्ष एव वृत्त्यभावात् ॥ नाप्यनक्रान्तिकं, विपक्षे परमाएवादावप्रवृत्तेः । प्रतिपक्षसिद्धिनिबन्धनस्य साधनान्तरस्याभावान्न प्रकरणसमम् ॥ अथ तन्वादिकं बुद्धिमद्धेतुकं न भवति दृष्टकर्तृकप्रासादादिविलक्षणवादाकाशवदित्यस्त्येव प्रतिपक्षसाधनमिति । नैतद्युक्तं, हेतोरसिद्धत्वात् । सन्निवेशविशिष्टत्वेन प्रासादादिसमानजातीयत्वेन तन्वादीनामुपलम्भात् ॥ अथ यादृशः प्रासादादौ सन्निवेशविशेषो दृष्टो न तादृशस्तन्वादाविति चेन्न सर्वात्मना सदृशस्य कस्यचिदप्यभावात् । सातिशयसनिवेशो हि सातिशयं कर्तारं गमयति प्रासादादिवत् । न च दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमनिमित्तेतरत्वसिद्धिः । कृत्रिमैमणिमुक्ताफलादिभिर्व्यभिचारात् ॥ एतेनाचेतनोपादानत्वादिकमपि समर्थितमिति सूक्तं बुद्धिमद्धतुकत्वं ततश्च सर्ववे. दित्वमिति ॥ तदेतत्सर्वमनुमानमुद्राद्रविणदरिद्रवचनमेव कार्यत्वादेरसम्य. ग्धेतुत्वेन तजनितज्ञानस्य मिथ्यारूपत्वात् । तथाहि- कार्यत्वं स्वकारण. सत्तासमवायः स्यादभूत्वाभावित्वमक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वं कारणव्यापारानुविधायित्वं वास्याद्गत्यन्तराभावात् । अथायः पतस्तदा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362