Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 303
________________ मेयरत्नमाला पुरुषत्वसामान्यं तु सन्दिग्धविपत्तव्यावृत्तिकमिति सिद्धं सकलपदार्थसातात्कारित्वं कस्यचित्पुरुषस्य । अतोऽनुमानादिति न प्रमाणपञ्चकाविषयत्वमशेषज्ञस्य ।। अथास्मिन्ननुमानेऽर्हतः सर्ववित्त्वमनईतो वा १ | अनईतश्चेदर्हद्वाक्यप्रमाणं स्यात् । तथेत्सोऽपि न श्रुत्या सामर्थ्येन वाडवगन्तुं पार्यते । स्वशक्त्या दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि तुल्यवृत्तित्वादिति । तदेतत्परेषां स्वववाय कृत्योत्थापनं, एवंविधविशेषप्रश्नस्य सर्वज्ञ सामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञत्वमित्येवं वक्तव्यम् । प्रसिद्धानुमानेऽप्यस्य दोषस्य सम्भवेन, जात्युत्तरत्वाच्च ॥ तथाहि - नित्यः शब्दः प्रत्यभिज्ञायमानत्वादित्युक्ते व्यापकः शब्दो नित्यः प्रसाध्यते व्यापको वा १ यद्यव्यापकः तदा व्यापकत्वे नोपकल्प्यमानो न कश्चिदर्थे पुष्णाति । अथ व्यापकः सोऽपि न । श्रुत्या सामर्थ्येन asard | स्वशक्त्या दृष्टान्तानुग्रहेण वा । पक्षान्तरेऽपि तुल्यवृत्तित्वादिति ॥ सिद्धमतो निर्दोषात्साधनादशेषज्ञत्वमिति । यच्चाभावप्रमाणकवलितसत्ता त्वमशेषज्ञस्येति तदयुक्तमेवानुमानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपञ्चकाभावमलस्याभावप्रमाणस्योपस्थापनायोगात् "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽज्ञानपेक्षया" इति च भावत्कं दर्शनम् । तथा च कालत्रयत्रिलोकलक्षणवस्तुसद्भावग्रहऽन्यत्रान्यदा गृहीतस्मरणे च सर्वज्ञनास्तिताज्ञानमभावप्रमाणं युक्तम् । नापरथा । न च कस्यचिदवग्दर्शिन खिजगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वतत्वं हि चेतोधर्मतयातीन्द्रियं तदपि न प्राकृतपुरुषविषयमिति कथमभावप्रमाणमुदयमासादयेत् । सर्वज्ञस्य तदुत्पाद सामग्रया असंभवात् । सम्भवे वा तथाज्ञातुरेव सर्वज्ञत्वमिति । अत्राधुना तदभावसाधनमित्यपि न युक्तं सिद्धसाध्यतानुषंगात् । ततः सिद्धं मुख्यमतीन्द्रियज्ञानमशेषतो विशदम् | सार्वज्ञज्ञानस्यातीन्द्रियत्वादश्रुत्यादिदर्शनं तद्रसास्वादनदोषोऽपि परिहृत एव ॥ कथमतीन्द्रियज्ञानस्य वैशद्यमिति चेत् । यथा सत्यस्वमज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि भावना बलादतदेशवस्तुनोऽपि विशददर्शनमिति । पिहिते कारागारे तमसि च सूचीमुखाग्रदुर्भेद्ये ॥ मयि च निमीलितनयने तथापि कान्ताननं व्यक्तमिति बहुलमुपलम्भात् ॥ ननु च नावर्णविश्लेषादशेषज्ञत्वमपि तु तनुकरणभुवनादिनिमित्तत्वेन । न चात्र Jain Education International For Personal & Private Use Only १६ www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362