Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 298
________________ प्रमेयरत्नमाला सर्वभावानां क्षणभङ्गसङ्गममेवाङ्गशृङ्गारमङ्गीकुर्वतां तथागतानां सत्त्वादिहेतू. नामनुदयप्रसङ्गात् । विपक्षे बाधकप्रमाणाभावात् । पक्षव्यापकत्वाचान्वयवत्वं प्रकृतेऽपि समानम् ॥ इदानीं स्वोक्तमेव विशदत्वं व्याचष्टेप्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा प्रतिभासनं वैशद्यमिति ॥४॥ एकस्याः प्रतीतेरन्या प्रतीतिः प्रतीत्यन्तरम् । तेनाव्यवधानं तेन प्रतिभासनं वैशद्यम् ॥ यद्यप्यवायस्यावग्रहेहाप्रतीतिभ्यां व्यवधानं, तथापि न परोक्षत्वं विषयविषयिणोर्भेदेनापतिपत्तेः ॥ यत्र विषयविषयिणोर्भेदे सति व्यवधानं तत्र परोक्षत्वम् । तानुमानाध्यक्षविषयस्यैकात्मग्राह्यस्याग्नेरभिन्नस्योपलम्भादध्यक्षस्य परोक्षतेति तदप्ययुक्तम् । भिन्नविषयत्वाभावात् ।। विसदृशसामग्रीजन्यभिन्न विषया प्रतीतिः प्रतीत्यन्तरमुच्यते नान्यदिति न दोषः॥ न केवलमेतदेव । विशेषणवत्तया वा प्रतिभासनं सविशेषवर्णसंस्थानादिग्रहणं वैशद्यम् ॥ "तच्च प्रत्यक्षं द्वधा मुख्यसंव्यवहारभेदादिति" मनसि कृत्य प्रथमं सांव्यवहारिकप्रत्यक्षस्योत्पादिकां सामग्री तद्भेदं च पाह इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकमिति ॥ ५॥ विशदं ज्ञानमिति चानुवर्तते । देशतो विशदं ज्ञानं सांव्यवहारिकमित्यर्थः समीचीनः प्रवृत्तिनिवृत्तिरूपो व्यवहारः संव्यवहारः तत्र भवं सांव्यवहारिकम् । भूयः किंभूतमिन्द्रियानिन्द्रियनिमित्तम् । इन्द्रियं चक्षुरादि, अनिन्द्रियं मनः ते निमित्तं कारणं यस्य । समस्तं व्यस्तं च कारणमभ्युपगन्तव्यम् ॥ इन्द्रियप्राधान्यादनिन्द्रियबलाधानादुपजातमिन्द्रियपत्यतम् , अनिन्द्रियादेव विशुद्धिसव्यपेक्षादुपजायमानमनिन्द्रियप्रत्यक्षम् ॥ तन्द्रियप्रत्यक्षमवग्रहादिधारणापर्यन्ततया चतुर्विधमपि बहादिद्वादशभेदमष्टचत्वारिंशत्संख्यं प्रतीन्द्रियं प्रतिपत्तव्यम् । अनिन्द्रियप्रत्यक्षस्य चोक्तमकारेणाष्टचत्वारिंशद्भदेन मनोनयनरहितानां चतुर्णामपीन्द्रियाणां व्यञ्जनावग्रहस्याष्टचत्वारिंशद्भेदेन च समुदितस्यन्द्रियानिन्द्रियप्रत्यक्षस्य पत्रिंशदुत्तरा त्रिंशती संख्या प्रतिपत्तव्या ॥ ननु स्वसंवेदनभेदमन्यदपि प्रत्यक्षमस्ति, तत्कथं नोक्तमिति न वाच्यम् । तस्य सुखादिज्ञानस्वरूपसंवेदनस्य मानसप्रत्यक्षत्वात् । इन्द्रियज्ञानस्वरूपसंवेदनस्य चेन्द्रियसमक्षत्वादन्यथा तस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362