Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 289
________________ प्रमेयरत्नमाला अनिश्चितोऽपूर्वार्थ इति ॥ ४ ॥ यः प्रमाणान्तरेण संशयादिव्यवच्छेदेनानध्यवासितः सोऽपूर्वार्थः ॥ तेनेहादिज्ञानविषयस्यावग्रहादिगृहीतत्वेऽपि न पूर्वार्थत्वम् । अवग्रहादिनेहादिविषयभूतावान्तरविशेषनिश्चयाभावात् ॥ अथोक्तप्रकार एवापूर्वार्थः किमन्योऽप्यस्तीत्याह ___ दृष्टोऽपि समारोपात्ताहगिति ॥ ५ ॥ दृष्टोऽपि गृहीतोऽपि-न केवलमानश्चित एवेत्यपि शब्दार्थः। तागपूर्वार्थों भवति । समारोपादिति हेतुः ॥ एतदुक्तं भवति-गृहीतमपि ध्यामलिताकारतया यन्निक्तुं न शक्यते तदपि वस्त्वपूर्वमिति व्यपदिश्यते प्रवृत्तसमारोपाव्यवच्छेदात् ॥ ननु भवतु नामापूर्वार्थव्यवसायात्मकत्वं विज्ञानस्य स्वव्यवसायं तु न विद्म इत्यत्राह स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसाय इति ॥ ६ ॥ स्वस्योन्मुखता स्वोन्मुखता तया स्वोन्मुखतया स्वानुभवतया प्रतिभासनं स्वस्य व्यवसायः॥ अत्र दृष्टान्तमाह .... अर्थस्येव तदुन्मुखतयेति ॥ ७॥ तच्छब्देनार्थोऽभिधीयते । यथार्थोन्मुखतया प्रतिभासनमर्थव्यवसायस्तथा स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायो भवति । अत्रोल्लेखमाह . घटमहमात्मना वेद्मीति ॥ ८॥ ननु ज्ञानमर्थमेवाध्यवस्यति न स्वात्मानम् । आत्मानं फलं वेति केचित् । कर्तृकर्मणोरेव प्रतीतिरित्यपरे । कर्तृकर्मक्रियाणामेव प्रतीतिरित्यन्ये । तेषां मतमखिलमपि प्रतीतिबाधितमिति दर्शयन्नाह____ कर्मवत्कर्तृ करणक्रियाप्रतीतेरिति ॥ ६ ॥ ज्ञानविषयभूतं वस्तु कर्माभिधीयते । तस्यैव ज्ञप्तिक्रियया व्याप्यत्वात् । तस्येव तद्वत् । कर्ता आत्मा । करणं प्रमाणम् । क्रिया प्रमितिः । कर्ता च करणं च क्रिया च तासां प्रतीतिः तस्या इति हेतौ का प्रागुक्तानुभवोल्लेखे यथाक्रमं तत्प्रतीतिर्द्रष्टव्या ॥ ननु शब्दपरामर्शसचिवेयं प्रतीतिर्न वस्तुत्वबलोपजातेत्यत्राह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362