________________
184
The Sacred Books of the Jainas term ( Hetu ) for it is doubtful whether Buddha is not full of passions.
(6) Kapila is not devoid of passions ( major term ) because he did not give his own flesh to the hungry ( middle term); whoever is devoid of passions gives his own flesh to the hungry as Buddha ( heterogeneous example ). Here the example involves doubt as to the validity of both the major and middle terms ( Sadhya and Sādhana ) for it is doubtful whether Buddha was devoid of passions and gave his own flesh to the hungry”.1
. 1. "तदनेन षड् दृष्टान्ताभासाः सूचिताः। तद् यथा साध्याव्यतिरेकी (१) साधनाव्यतिरेकी (२) साध्यसाधनाव्यतिरेकी (३) तथा संदिग्धसाध्याव्यतिरेकः (४) संदिग्धसाधनव्यतिरेकः (५) संदिग्धसाध्यसाधनव्यतिरेकश्च (६)। तत्र साध्याव्यतिरेकी यथा, भ्रान्तमनुमानं प्रमाणत्वात् , इत्यत्र वैधर्म्यदृष्टान्तो यत् पुनःभ्रान्तं न भवति न तत् प्रमाणं तद् यथा स्वप्नज्ञानमिति। स्वप्नज्ञानात् भ्रान्ततानिवृत्तेः साध्याव्यतिरेकित्वम् । साधनाव्यतिरेकी यथा, प्रत्यक्षं निर्विकल्पकं प्रमाणत्वात् । अत्र वैधर्म्यदृष्टान्तो, यत् पुनः सविकल्पकं न तत् प्रमाणं तद् यथानुमानमनुप्रमाणतानिवृत्तेः साधनाव्यतिरेकित्वम् । उभयाव्यतिरेकी यथा, नित्यानित्यः शब्दः सत्वात् इत्यत्र वैधर्म्यदृष्टान्तो यः पुनर्न नित्यानित्यः स न सन् तद् यथा घटः घटादुभयस्यापि अव्यावृत्तेरुभयाव्यतिरेकित्वम् । तथा संदिग्धसाध्यव्यतिरेकः, असर्वज्ञा अनाप्ता वा कपिलादयः आर्यसत्यचतुष्टयाप्रतिपादकत्वात् । अत्रं वैधादृष्टान्तः यः पुनः सर्वज्ञ आप्तो वा असौ आर्यसत्यचतुष्टयं प्रत्यपीपदत् तद् यथा शौद्धोदनिरिति । अयं च साध्यव्यतिरेकी वा आर्यसत्यचतुष्टयस्य दुःखसमुदयमार्गनिरोधलक्षणस्य प्रमाणवाधितत्वेन तदुभाषकस्य असर्वज्ञतानाप्ततोपपत्तः ।...तस्मात् शौद्धोदनेः सकाशात् असर्वज्ञतानाप्ततालक्षणस्य साध्यस्य व्यावृत्तिः सन्दिग्धेति सन्दिग्धसाध्यव्यतिरेकित्वम् । सन्दिग्धसाधनव्यतिरेको यथा, अनादेयवाक्यः कश्चिदू विवक्षितः पुरुषो रागादिमत्वादित्यत्र वैधर्म्यदृष्टान्तो यः पुनः आदेयवाक्यो न स रागादिमान तयथा सुगत इति ।.... सुगतात् रागादिमत्वव्यावृत्तिसंशयात् संदिग्धसाधनव्यतिरेकित्वम् । संदिग्धसाध्यसाधनव्यतिरेको यथा, वीतरागाः कपिलादयः करुणास्पदेषु अपि अकरुणापरीतचित्ततया दत्तनिजमांसशकलत्वात् । अत्र वैधर्म्यदृष्टान्तो ये पुनर्वीतरागास्ते करुणापरीतचित्ततया दत्तनिजमांसशकलाः तद् यथा बोधिसत्वा इत्यत्र साधनसाध्यधर्मयोर्बोधिसत्वेभ्यो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org