________________
तवसंजममयलंछण अकिरियराहुमुहदुद्धरिस निच्चं। जय संघचंद! निम्मलसम्मत्तविसुद्धजोण्हामा !॥९॥ संघस्य चंद्र 8] तपश्च संयमश्च तपःसंयम, समाहारो द्वन्द्वः, तपःसंयममेव मृगलाञ्छनं-मृगरूपं चिहं यस्य तस्यामन्त्रणं योभ्यामी हे तपःसंयममृगलाञ्छन!, तथा न विद्यन्तेऽनभ्युपगमात् परलोकविषया क्रिया येषां ते अक्रिया-नास्तिकाः
| पम्यं.
गा. ९-१० त एव जिनप्रवचनशशाङ्कासनपरायणत्वाद्राहुमुखमिवाक्रियराहुमुखं तेन दुष्प्रधृष्यः-अनभिभवनीयः तस्यामत्रणं हे अक्रियराहुमुखदुष्प्रधृष्य !, सङ्घश्चन्द्र इव सङ्घचन्द्रः तस्यामत्रणं हे सङ्घचन्द्र !, तथा निर्मलं-मिथ्यात्वमलरहितं यत्सम्यक्त्वं तदेव विशुद्धा ज्योत्स्ना यस्य स तथा, 'शेषाद्वेति कः प्रत्ययः, तस्यामन्त्रणं हे निर्मलसम्यक्त्व-| है विशुद्धज्योत्स्नाक !, दीर्घत्वं प्रागिव प्राकृतलक्षणादवसेयम् , 'नित्यं सर्वकालं 'जय' सकलपरदर्शनतारकेभ्योऽ
तिशयवान् भव, यद्यपि भगवान् सङ्घचन्द्रः सदैव जयन् वर्त्तते तथाऽपीत्थं स्तोतुरभिधानं कुशलमनोवा| कायप्रवृत्तिकारणमित्यदुष्टम् ॥ पुनरपि सङ्घस्यैव प्रकाशकतया सूर्यरूपकेण स्तवमाह
परतित्थियगहपहनासगस्स तवतेयदित्तलेसस्स । नाणुज्जोयस्स जए भदं दमसंघसूरस्त ॥ १० ॥ परतीर्थिकाः-कपिलकणभक्षाक्षपादसुगतादिमतावलम्बिनः त एव ग्रहाः तेषां या प्रभा-एकैकदुर्नयाभ्युपगमपरिस्फूर्तिलक्षणा तामनन्तनयसङ्कुलप्रवचनसमुत्थविशिष्टज्ञानभास्करप्रभावितानेन नाशयति-अपनयतीति | परतीर्थिकग्रहप्रमानाशकः तस्य, तथा तपस्तेज एवं दीप्ता-उज्वला लेश्या-भाखरता यस्य स तथा तस्य
For Personal & Private Use Only
www.jainelibrary.org