Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रस्य स्वेनाभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च द्विधा - मूलप्रथमानुयोगो गण्डिकानुयोगश्च, इह मूलं- धर्मप्रणयनात्तीर्थकरास्तेषां प्रथमः- सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, इक्ष्वादीनां पूर्वापरपर्वपरिच्छिन्नो मध्यभागो गण्डिका गण्डिकेव गण्डिका-एकार्थाधिकारा ग्रन्थपद्धतिरित्यर्थः, तस्या अनुयोगो गण्डिकानुयोगः । ' से किं तमित्यादि, अथ कोऽयं मूलप्रथमानुयोगः ?, आचार्य आह - मूलप्रथमानुयोगेन अथवा मूलप्रथमानुयोगे 'ण' मिति वाक्यालङ्कारे अर्हतां भगवतां सम्यक्त्वभवादारभ्य पूर्वभवा देवलोकगमनानि तेषु पूर्वभवेषु देवभवेषु चायुर्देवलोकेभ्यश्यवनं तीर्थकर भवत्वेनोत्पादस्ततो जन्मानि ततः शैलराजे सुरासुरैर्विधीयमाना अभिषेका इत्यादि पाठसिद्धं यावन्निगमनं । 'से किं तमित्यादि, अथ कोऽयं गण्डिकानुयोगः १, सूरिराह – गण्डिकानुयोगेन अथवा गण्डिकानुयोगे 'ण' मिति वाक्यालङ्कारे, कुलकरगण्डिकाः, इह सर्वत्राप्यपान्तरालवर्त्तिन्यो बह्वयः प्रतिनियतैकार्थाधिकाररूपा गण्डिकास्ततो बहुवचनं, कुलकराणां गण्डिकाः कुलकरगण्डिकाः, तत्र कुलकराणां विमलवाहनादीनां पूर्वभवजन्मनामादीनि सप्रपञ्चमुपवर्ण्यन्ते, एवं तीर्थकर गण्डिकादिष्वभिधानवशतो भावनीयं, 'जाव चित्तंतरगंडिआउ'त्ति चित्रा - अनेकार्था अन्तरे - ऋषभाजिततीर्थकरापान्तराले गण्डिकाः चित्रान्तरगण्डिकाः, एतदुक्तं | भवति - ऋषभाजिततीर्थकरान्तरे ऋषभवंशसमुद्भूतभूपतीनां शेषगतिगमनव्युदासेन शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिका गण्डिकाश्चित्रान्तरगण्डिकाः, तासां च प्ररूपणा पूर्वाचार्यैरेवमकारि-इह सुबुद्धिनामा सगरचक्रवर्त्तिनो
Jain Enternational
For Personal & Private Use Only
मूलप्रथमानुगण्डिकानुयोगः
१०
१३
www.jainelibrary.org

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514