Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
नेया । सवत्थवि अंतिलं अन्नाए आइमं ठाणं ॥ १॥ अउणत्तीसं वारा ठावेउं नत्थि पढम उक्खेवी । सेसे अडवीसाए सवत्थ दुगाइ उक्खेवो ॥ २ ॥ सिवगइ पढमादीए वीआए तह य होइ सबट्ठे । इय एगंतरियाई सिवगइसठाणाई ॥३॥ एवमसंखेज्जाओ चित्तंतरगंडिया मुणेयवा । जाव जियस तुराया अजियजिणपिया समुप्पण्णो ॥ ४ ॥” तथा 'अमरे' - त्यादि, विविधेषु परिवर्तेषु भवभ्रमणेषु जन्तूनामवगम्यते अमरनरतिर्यग्निरयगतिगमनं, एवमादिका गण्डिका बहव आख्यायन्ते, 'सेत्तं गण्डियाणुजोगे' सोऽयं गण्डिकानुयोगः । ' से किं तमित्यादि, अथ कास्ताश्चूला::?, इह चूला शिखरमुच्यते, यथा मेरौ चूला, तत्र चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, तथा चाह चूर्णिणकृत् - " दिट्टिवाए जं परिकम्मसुत्तपुवाणुयोगे न भणियं तं चूलासु भणियं "ति । अत्र सूरिराह-चूला आदिमानां चतुर्णी पूर्वाणां शेषाणि पूर्वाण्यचूलकानि, ता एव चूला आदिमानां चतुर्णी पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तू नीति भणिताः, आह च चूर्णिणकृत् - "ता एव चूला आइलपुत्राणं चउन्हं चुलवत्थूणि भणिता” एताश्च सर्वस्यापि दृष्टिवादस्योपरि किले स्थापितास्तथैव च पठ्यन्ते ततः श्रुतपर्वते चूला इव राजन्ते इति चूला इत्युक्ताः, तथा चोक्तं चूर्णिणकृता - " सघुवरिट्ठिया पढिजंति, अतो तेसु य पञ्चयचूला इव चूला इति", तासां च चूलानामियं सङ्ख्या - प्रथमपूर्वसत्काश्चतस्रः द्वितीयपूर्वसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश तथा च पूर्वमुक्तं सूत्रे - " चत्तारि दुवालस अट्ठ चेव दस चेव चलव
3
Jain Edemnational
For Personal & Private Use Only
गण्डिकायोगः
१३
www.jainielibrary.org

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514