Book Title: Nandisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
*
SCLASSASURES
तेषां यथावस्थितार्थप्रकाशनाभावतोऽनागमत्वाद्, आगमशास्त्रस्य ग्रहणं आगमशास्त्रग्रहणं यः बुद्धिगुणैर्वक्ष्यमाणैः श्रुतभेदाः कारणभूतैरष्टभिदृष्टं तदेव ग्रहणं श्रुतज्ञानस्य लाभ त्रुवते पूर्वेषु विशारदा-विपश्चितः धीराः-त्रतपरिपालने स्थिराः, श्रुतलाभ: किमुक्तं भवति ?-यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषमिति ॥ बुद्धिगुणैरष्टभि- बुद्धिगुणो
अनुयोगश्च रित्युक्तं, ततस्तानेव बुद्धिगुणानाह-'सुस्सूसई'त्यादि, पूर्व तावत् शुश्रूषते-विनययुक्तो गुरुवदनारविन्दाद्विनिर्गच्छ-18.५९ द्वचनं श्रोतुमिच्छति, यत्र शङ्कितं भवति तत्र भूयोऽपि चिनयनम्रतया वचसा गुरुमनः प्रह्लादयन् पृच्छति, पृष्टे च गा.८६-९०
सति यद्गुरुः कथयति तत्सम्यक्-व्याक्षेपपरिहारेण सावधानः शृणोति,श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा च ईहतेहै पूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चयार्थः, अपिशब्दात्प(ब्दः पालोचयन् किञ्चित् खबुद्ध्याऽप्युत्प्रेक्षते इति | सूचनार्थ
ततः पर्यालोचनाऽनन्तरमपोहते-एवमेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तमर्थ निश्चितं खचेतसि विस्मृत्यभावार्थं सम्यग् धारयति, करोति च सम्यग् यथोक्तमनुष्ठानं, यथोक्तमनुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः, सम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाह-मूय-18| मित्यादि, मूकमिति प्रथमतो मूकं शृणुयात् , किमुक्तं भवति ?-प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत, ततो द्वितीये है श्रवणे हुङ्कारं दद्यात् , वन्दनं कुर्यादित्यर्थः, ततस्तृतीये वाढंकारं कुर्यात् , बाढमेवमेतन्नान्यथेति, ततश्चतुर्थे श्रवणे तु गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात् , कथमेतदिति?, पञ्चमे मीमांसां-प्रमाणजिज्ञासां कुर्यादिति |१३
Jain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514