Book Title: Nandisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 486
________________ श्रीमलय- तीति कर्मप्रवादं, तस्य पदपरिमाणमेका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पञ्चक्खाण'ति अत्रापि पदैकदेशे 81 गिरीया पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति द्रष्टव्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं, तस्य पदपरिमाणं । धिकार: चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवाद, विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षण ॥२४॥ वदतीति विद्यानुप्रवादं, तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः। एकादशमवन्ध्यं, वन्ध्यं नाम निष्फलं न विद्यते वन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति?-यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफलाः सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं पडिंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणाः-पञ्चेन्द्रियाणि त्रीणि मानसादीनि बलानि उच्छासनिश्वासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायु- २० दरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी पट्पञ्चाशच पदलक्षाणि । त्रयोदशं क्रियाविशालं, क्रियाः-कायिक्यादयः । है संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिर्विशालं क्रियाविशालं, तस्य पदपरिमाणं नव कोटयः । चतुर्दशं लोकविन्दुसारं, लोके-जगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसारं, ॥२४॥ | तस्य पदपरिमाणमर्द्धत्रयोदशकोटयः । 'उप्पायपुवस्स ण'मित्यादिकं कण्ठ्यं, नवरं वस्तु-ग्रन्थविच्छेदविशेषः तदेव | लघुतरं चुलकं वस्तु, तानि चादिमेष्वेव चतुर्पु, न शेषेषु, तथा चाह-'आइलाण चउण्हं सेसाणं चुलिया णत्थि',8/२५ 'सेत्तं पुत्वगए' तदेतत्पूर्वगतं । 'से किं तमित्यादि, अथ कोऽयमनुयोगः?, अनुरूपोऽनुकुलो वा योगोऽनुयोगः For Personal & Private Use Only Jain Education International ainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514