________________
श्रीमलय- तीति कर्मप्रवादं, तस्य पदपरिमाणमेका पदकोटी अशीतिश्च पदसहस्राणि । नवमं 'पञ्चक्खाण'ति अत्रापि पदैकदेशे 81 गिरीया पदसमुदायोपचारात्प्रत्याख्यानप्रवादमिति द्रष्टव्यं, प्रत्याख्यानं सप्रभेदं यद्वदति तत्प्रत्याख्यानप्रवादं, तस्य पदपरिमाणं ।
धिकार: चतुरशीतिः पदलक्षाणि । दशमं विद्यानुप्रवाद, विद्या-अनेकातिशयसम्पन्ना अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षण ॥२४॥
वदतीति विद्यानुप्रवादं, तस्य पदपरिमाणमेका पदकोटी दश च पदलक्षाः। एकादशमवन्ध्यं, वन्ध्यं नाम निष्फलं न विद्यते वन्ध्यं यत्र तदवन्ध्यं, किमुक्तं भवति?-यत्र सर्वेऽपि ज्ञानतपःसंयमादयः शुभफलाः सर्वे च प्रमादादयोऽशुभफला यत्र वर्ण्यन्ते तदवन्ध्यं नाम, तस्य पदपरिमाणं पडिंशतिः पदकोट्यः । द्वादशं प्राणायुः, प्राणाः-पञ्चेन्द्रियाणि त्रीणि
मानसादीनि बलानि उच्छासनिश्वासौ चायुश्च प्रतीतं, ततो यत्र प्राणा आयुश्च सप्रभेदमुपवर्ण्यन्ते तदुपचारतः प्राणायु- २० दरित्युच्यते, तस्य पदपरिमाणमेका पदकोटी पट्पञ्चाशच पदलक्षाणि । त्रयोदशं क्रियाविशालं, क्रियाः-कायिक्यादयः । है संयमक्रियाश्च ताभिः प्ररूप्यमाणाभिर्विशालं क्रियाविशालं, तस्य पदपरिमाणं नव कोटयः । चतुर्दशं लोकविन्दुसारं, लोके-जगति श्रुतलोके च अक्षरस्योपरि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वात् लोकबिन्दुसारं,
॥२४॥ | तस्य पदपरिमाणमर्द्धत्रयोदशकोटयः । 'उप्पायपुवस्स ण'मित्यादिकं कण्ठ्यं, नवरं वस्तु-ग्रन्थविच्छेदविशेषः तदेव | लघुतरं चुलकं वस्तु, तानि चादिमेष्वेव चतुर्पु, न शेषेषु, तथा चाह-'आइलाण चउण्हं सेसाणं चुलिया णत्थि',8/२५ 'सेत्तं पुत्वगए' तदेतत्पूर्वगतं । 'से किं तमित्यादि, अथ कोऽयमनुयोगः?, अनुरूपोऽनुकुलो वा योगोऽनुयोगः
For Personal & Private Use Only
Jain Education International
ainelibrary.org