________________
मिंढ ३ कुकुड ४ वालुअ ५ हत्थी ६ अगड ७ वणसंडे ८। पायस ९ अइआ १० पत्ते ११ खा- औत्पत्तिकी डहिला १२ पंच पिअरो अ १३ ॥ ६४ ॥ महुसित्थ १७ मुदि १८ अंके १९ नाणए २० भिक्खु बुद्धि
दृष्टान्ता २१ चेडगनिहाणे २२ । सिक्खा य २३ अत्थसत्थे २४ इच्छा य महं २५ सयसहस्से २६ ॥६५॥
आसामर्थः कथानकेभ्योऽवसेयः, तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः संक्षेपेणोच्यन्ते-उज्जयनी नाम पुरी, तस्याः समीपवर्ती कश्चिन्नटानामेको ग्रामः, तत्र च ग्रामे भरतो नाम नटः,
तस्य भायो परासुरभूत् , तनयश्चास्य रोहिकाभिधोऽद्याप्यल्पवयाः, ततः सत्वरमेव खस्य स्वतनयस्य च शु राणायान्या समानिन्ये वधूः, सा च रोहकस्य सम्यग् न वर्तते, ततो रोहकेण सा प्रत्यपादि-मातर्न मे त्वं सम्यग् ५
वर्त्तसे ततो ज्ञास्यसीति, ततः सा सेयॆमाह-रे रोहक ! किं करिष्यसि ?, रोहकोऽप्याह-तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति, ततः सा तमवज्ञाय तृष्णीमतिष्ठत , रोहकोऽपि तत्कालादारभ्य गाढसञ्जाताभि-| निवेशोऽन्यदा निशि सहसा पितरमेवमभाणीत-भो भोः पितरेप पलायमानो गोहो याति, तत एवं बालकवचः श्रुत्वा पितुराशङ्का समुदपादि-नून विनष्टा मे महेलेति, तत एवमाशङ्कावशात्तस्यामनुरागः शिथिलीबभूव, ततो न तां सम्यक संभाषते, नापि विशेषतस्तस्ये पुष्पताम्बूलादिकं प्रयच्छति. दरतः पुनरपास्तं शयनादि, ततः सा चिन्तयामास-नूनमिदं बालकविचेष्टितम् , अन्यथा कथमकाण्ड एवैष दोषाभावे पराअखो जातः?, ततो बालकमेवमवा-11
ternational
-
For Personal & Private Use Only
www.janelibrary.org