________________
खपरपयायाः
श्रीमलयगिरीया नन्दीवृत्तिः ॥२०॥
तानन्तरेण तेषां खपर्यायव्यपदेशासम्भवात् , तथाहि-यदि ते परपर्याया न भवेयुस्तबकारस्य स्वपर्यायाः स्वपर्याया इत्येवं न व्यपदिश्येरन् , परापेक्षया खव्यपदेशस्य भावात् , ततः स्वपर्यायव्यपदेशकारणतया तेऽपि परपर्यायाः तस्योपयोगिन है। इति तस्येति व्यपदिश्यन्ते, अपिच-सर्व वस्तु प्रतिनियतखभावं, सा च प्रतिनियतखभावता प्रतियोग्यभावात्मकतोपनिवन्धना, ततो यावन्न प्रतियोगिविज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मकं तत्त्वतो ज्ञातुं शक्यते, तथा च सति घटादिपर्यायाणामपि अकारस्य प्रतियोगित्वात्तदपरिज्ञाने नाकारो याथात्म्येनावगन्तुं शक्यते इति घटादिपर्याया अपि अकारस्य पर्यायाः, तथा चात्र प्रयोगः-यदनुपलब्धौ यस्यानुपलब्धिः स तस्य सम्बन्धी, यथा घटस्य रूपादयः, घटादिपर्यायानुपलब्धौ चाकारस्य न याथात्म्येनोपलब्धिरिति ते तस्य सम्बन्धिनः, न चायमसिद्धो हेतुः , घटादिपर्यायरूपप्रतियोग्यपरिज्ञाने तदभावात्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भा-3 प्यकृत्-"जेसु अनाएसु तओ न नजए नजए य नाएसुं । कह तस्स ते न धम्मा?, घडस्स रूवाइधम्मच ॥१॥"|| तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति खपरपर्यायापेक्षयाऽकारः सर्वद्रव्यपर्यायपरिमाणः, एवमाका-
I R रादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः एवं घटादिकमपि प्रत्येकं सर्व वस्तुजातं परिभा-18 वनीयं, न्यायस्य समानत्वात् , न चैतदना, यत उक्तमाचाराङ्गे-"जे एगं जाणइ से सर्व जाणइ, जे सर्व जाणइ
ASRALASASHA
१येष्वज्ञातेषु स को न ज्ञायते ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्माः घटस्य रूपादिधर्मा इव ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org