________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ९६ ॥
से किं तं पडिवाइओहिनाणं ?, पडिवाइओहिनाणं जहण्णेणं अंगुलस्स असंखिज्जयभागं वा सं खिज्जभागं वा वालग्गं वा वालग्गपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जूयपुहुत्तं वा जवं वा जवपुहुत्तं वा अंगुलं वा अंगुलपुहत्तं वा पायं वा पायपुहुत्तं वा विहत्थि वा विहत्थिपुहुत्तं वा स्यणिं वा रयणिपुहुत्तं वा कुच्छि वा कुच्छिपुहुत्तं वा धणुं वा धणुपुहुत्तं वा गाउअं वा गाउपुहुत्तं वा जोअणं वा जोअपुहुत्तं वा जोअणसयं वा जोयणसय पुहुत्तं वा जोयणसहस्सं वा जोअणसहस्स पुहुत्तं वा जोअणलक्खं वा जोअणलक्खपुहुत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइज्जा, सेत्तं पडिवाइओहिनाणं (सु. १४)
अथ किं तत्प्रतिपातिअवधिज्ञानं १, सूरिराह - प्रतिपात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अङ्गुलस्यासङ्ख्येयभागमात्रं सङ्ख्येयभागमात्रं वा वालाग्रं वा वालाग्रपृथक्त्वं वा लिक्षां वा वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा अङ्गुलं वा अङ्गुल पृथक्त्वं वा, एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्ट्वा' उपलभ्य 'प्रतिपतेत्' प्रदीप इव नाशमुपयायात् तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगमं, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्यः इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम् ॥
Jain Education Bonal
For Personal & Private Use Only
युतिपा
त्यवधिः.
सू. १४
१५
२०
॥ ९६ ॥ २३
www.jainelibrary.org