________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ५४ ॥
रकमध्ययनं वक्ष्ये, क एवमाह ?, उच्यते - दूष्यगणिशिष्यो देववाचकः ॥ इह ज्ञानस्य प्ररूपणां वक्ष्य इत्युक्तम्, सा च प्ररूपणा शिष्यानधिकृत्य कर्त्तव्या, शिष्याश्च द्विधा - योग्या अयोग्याश्च तत्र योग्यानधिकृत्य कर्त्तव्या नायोग्यानिति प्रथमतो योग्यायोग्यविभागोपदर्शनार्थ तावदिदमाह
सेलघण १ कुडग २ चालणि ३ परिपूणग ४ हंस ५ महिस ६ मेसे य ७ । मसग ८ जलूग ९ विराली १० जाहग ११ गो १२ भेरि १३ आभीरी १४ ॥ ४४ ॥ अत्र पर आह-ननु ये देववाचकनामानः सूरयस्ते महापुरुषाः सदैव समभावव्यवस्थिताः कृपालवः अत एव सकलसत्त्वहितसम्पादनाय कृतोद्यमाः तत्कथमिदमध्ययनं दातुमुद्यता योग्यायोग्यविभागनिरीक्षणमारभन्ते ?, न हि परहितकरणप्रवृत्तमनसो महीयांसो महादानं दातुकामा मार्गणकगुणमपेक्ष्य दानक्रियायां प्रवर्त्तन्ते दयालवः, किन्तु प्रावृषेण्यजलभृत इवाविशेषेण, अत्रोच्यते, यत एव देववाचकसूरयः समभावव्यवस्थिताः सकलसत्त्वहितसम्पाद - नाय कृतोद्यमा महीयांसः कृपालवश्च अत एव शुभमिदमध्ययनं दातुमुद्यता योग्यायोग्यविनेयजनविभागोपदर्शनमारभन्ते, मा भूदयोग्येभ्यः प्रदाने तेषामनर्थोपनिपात इतिकृत्वा, अथ कथं तेषामेतदध्ययनप्रदाने महानर्थोपनिपातः ?, उच्यते, ते हि तथाखाभाव्यादेव अचिन्त्यचिन्तामणिकल्प मज्ञानतमः समूह भास्करमने कभवश तसहस्र पर|म्परासङ्कलितकर्मराशिविच्छेदकमपीदमध्ययनमवाप्य न विधिवदासेवन्ते, नापि मनसा बहुमन्यन्ते, लाघवमपि चास्य
Jain Education International
For Personal & Private Use Only
स्थविरावलिका. गा.
४२-४४
१५
२०
॥ ५४ ॥
२५
www.jainelibrary.org