Book Title: Nandanvan Kalpataru 2014 04 SrNo 32 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ प्रास्ताविकम् लेखनं नाम किम् ? कस्यचन भावस्य विचारस्य वा भाषामाध्यमेनाऽभिव्यज्याऽन्यस्य मनसि प्रापणं प्रत्यायनं वा नाम लेखनम् । अत्र हि तत्त्वद्वयमस्ति – कथयितव्यं, भाषा च । तन्नाम, प्रथमं तावत् यत् कथयितव्यमस्ति तद्विषयकः स्पष्टो बोध आवश्यकः । असति हि स्पष्टे बोधे सुष्ट्वप्यभिव्यक्तिसामर्थ्यं परप्रत्यायने सफलं नैव भवेत् । स्पष्टे बोधे च सति तदभिव्यक्त्यर्थं भाषासामर्थ्यमपि सुतरामावश्यकम् । अन्यथा स्वमनसि स्पष्टबोधवत्यपि लेखनं निष्फलं भवेत् । एवं च तत्त्वद्वये सत्येव सफलतया लेखनं कर्तुं शक्यम् । यो हि स्वेन कथयितव्यं किमित्येव न जानाति तस्य लेखनं हि यथाकथञ्चित् प्रवर्तमानमुन्मत्तस्याऽटाट्येव भवति । एतादृशे लेखनेऽसाङ्गत्यमसम्बद्धतास्पष्टतेत्यादयो दोषा दृश्यन्ते । ततश्च वाचकस्य प्रत्यायनं सर्वथा न भवति । यश्च कथयितव्यं सम्यगवबुध्यते किन्तु तदभिव्यक्तये भाषासामर्थ्यं न धारयति तस्य लेखनं यद्यपि प्रत्यायनसमर्थं तु कथञ्चिद् भवेत् तथाऽपि तस्य यथार्थः प्रभावो नैव भवेत् । Jain Education International 6 For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 154