Book Title: Nandanvan Kalpataru 2014 04 SrNo 32 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 5
________________ वाचकानां प्रतिभावः महात्मन्, नन्दनवनकल्पतरोः एकत्रिंशी शाखा अत्र प्राप्ता । पूर्वं यथोक्तम्, अहं कल्पतरुवाचनेन द्वेधा लाभान्वितः अस्मि । (जैनदर्शनपरिचयेन, संस्कृतस्य विशिष्टप्रयोगाणां क्रोडीकरणेन चेति) । तत्र सर्वा अपि पद्यरचना हृद्याः । आचार्य विजयहेमचन्द्रसूरिभिलिखितं श्रीनेमिसौभाग्यमहाकाव्यं तत्रत्यवाक्प्रवाहेण मनोऽकार्सीत् । मुनिकल्याणकीर्तिविजयैलिखितः 'शून्यता' इति वैज्ञानिकलेखो मां गीतायास्त्रयोदशेऽध्याये "ब्रह्म न सत्, न च असत्' इति यदुक्तं, तदस्मारयत् । तत्र "प्रोटोनकणस्य परितः" इति दृष्टम् (३७तमे पुटे मध्यभागे ईषदुपरि) तत्तु “प्रोटोनकणं परितः" इति स्यात् चेत् उत्तमम् । हेरमानहेसस्य सिद्धार्थकथाया आङ्ग्लानुवादः पूर्वं पठित आसीत् । इदानीं कल्पतरौ तस्य संस्कृतानुवादं दृष्ट्वाऽतीव प्रसन्नोऽभवम् । अनुवादकेभ्यो मुनिकल्याणकीर्तिविजयेभ्यो नमः । तैरेव लिखिता अमरदत्तमित्रानन्दयोः कथाऽपि मह्यमतीवाऽरोचत । इति भवदीयः रवीन्द्रः Palghat-678012 Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 154