Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 6
________________ वाचकानां प्रतिभावः मान्याः, सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' त्रिंशत्तम्यां शाखायां सम्पादकीये सत्यं निगद्यते यत् साम्प्रतमपि तमोगुणोपेते भारते महामानवाः सञ्जायन्ते । विषमेऽपि कालेऽस्भाभिः स्वसंस्कृतेः संरक्षणस्य संवर्धनस्य सामञ्जस्यतत्त्वस्य चाऽन्वेषणस्य प्रयत्ना विधेयाः । तदर्थं नन्दनकल्पतरुपरिवारः प्रयततेऽनारतम् । अस्यां शाखायां डा.रामकिशोरमिश्र-देवर्षि कलानाथ-एच्.वि.नागराजराव्-डा. वासुदेव पाठकादीनां कृतयोऽभिनन्दनीयाः सन्ति । मुनिवर्यैः प्रणीताः कथाः 'साम्राज्यस्थैर्यमूलम्', 'योगक्षेमं वहाम्यहम्', 'भिक्षुकाणां राजा', 'देशस्य जातोऽस्ति प्रतिश्यायव्याधिः' इत्यादयो न केवलं सन्मार्गमुपदिशन्ति, अपि तु व्यञ्जनया समाजस्य राष्ट्रस्य च परिस्थितिपरिष्कारस्योपायान् अपि निर्दिशन्ति । संस्कृतविभागस्य अध्यक्षेण प्रस्तुतो लेखो न केवलं तस्य लेखनस्खलितानि सूचयति अपि तु साम्प्रतं समाजे राष्ट्रे च नितरामारक्षणव्यवस्थया, उत्कोचबलेन, अन्यायेन वा कृतानां नियुक्तीनां दोषान् अपि सम्यग् विशदीकरोति । मन्ये - लेखनात् प्राग् लेखकैः स्वलेखानां रचनानां वा दोषाः स्वयमेव सविवेकं चिन्तनीयाः, अन्यथा संस्कृतभाषायाः संस्कृतत्वं सुरक्षितं न स्यात् । चिन्तयन्तु सुविज्ञाः । जयति संस्कृतं संस्कृतिश्च । डॉ. रूपनारायणपाण्डेयः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 154