Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शि०
आ०
एतदपेक्षयैव भवन्तः तत्तत्पर्यायविशिष्टपरमाणूनामुत्पादविनाशौ प्रतिपादितवन्तः स्युः। सम्यगवधारितं भवता । पर्यायार्थिकनर्यावलम्बिनस्तु स्वीकुर्वन्ति यत् कार्योत्पत्तेः पूर्वं द्रव्ये पर्यायविशेषस्य सत्त्वम्, उत्पत्त्यनन्तरं तु तदन्यपर्यायस्य विद्यमानता । द्रव्यस्य तु पूर्वमेव निष्पन्नत्वान्नोत्पत्तौ घटकतेति । यथा घटोत्पत्तेः पूर्वं मृदि कुशूलपर्यायस्य सत्त्वम्, उत्पत्तेः
पश्चाद् घटपर्यायस्य । सम्मतिटीकाकृतः प्रतिपादनमेतं नयमनुसरति । शि० भवद्भिः तत्त्वं बोधयित्वाऽनुगृहीतोऽहम् ।
शि०
शि० प्रभो ! भवद्भिः पूर्वं यद् बोधितं तदनुसारं त्विदमायातम्- अणव एव
परिणामात् परिणामान्तरमुपसर्पन्तीति । तत्रैवं नियमं कर्तुं शक्यते यत् पूर्वपरिणामनाशे एवोत्तरपरिणामोत्पादः । कथमेवं निर्णेतव्यम् ? यावद् मृदणूनां घटपरिणामेनाऽवस्थितिस्तावन्न कपालपरिणामेनोत्पत्ति
रित्यतः । आ० तन्तुपरिणतानामेवाऽणूनां पटपरिणामप्राप्ति कथं विस्मरसि ?
तत्राऽपि तन्तुपरिणामविनाशे एव पटावस्थोत्पादः । अहो भवतो वैदग्धी ! पटे तन्तवः कदाऽपि न दृष्टाः ? नष्टस्याऽप्रत्यक्षत्वनियमो विस्मृतः ? पटद्वयसंयोगाज्जाते महापटे 'अयं पटः'
'इदं पटद्वय'मिति प्रतीतिद्वयं नाऽनुभूतम् ? शि० भवत्कथनस्याऽयमाशयो मया गृहीतः - परिणामान्तरोत्पत्तिं प्रति
पूर्वपरिणामेनाऽवस्थितिर्न बाधिकेति ।।
केन तथा कथितम् ? घटकपालयोर्दृष्टान्तं त्वया स्वयमुक्तमपि विस्मृतम् ? शि० इदानीं भवन्त एव शरणम् । अहं तु किमपि निर्णेतुं न पारयामि । आ० वत्स ! हताशो मा भूः । त्वज्जिज्ञासामुत्तेजयितुमेवाऽहमेतादृशं जालं
रचितवान् । सावधानीभूय शृणु - पूर्वावस्थानाशेनैवोत्तरावस्थोत्पाद इति १. प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकनयः ।
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126