Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पुनः मम जीवनं च गौरवं च सा शशिवदना अस्ति । तां प्राप्तुं किमपि
कर्तुमहं तत्परः। सचिवः तस्याः हेतोः त्वं रजककर्माऽपि करिष्यसि ? नगरजनानां वस्त्राण्यपि
क्षालयिष्यसि ? WC पुर्नुः तस्याः स्नेहं प्राप्तुं किमपि कर्तुमहं दृढनिश्चयः । । सचिवः अहो मूर्खः, स्त्रीलोलुपः । गच्छाम्यहम् । स्वदेशं गत्वा इदं सर्वं तव पित्रे भ्रातृभ्यश्च निवेदयामि ।
दृश्यम् (७)
(दृश्यपरिवर्तनसूचनार्थं संगीतम्) ज्येष्ठभ्राता सचिव, तव श्रद्धया मम भ्राता त्वया सह प्रेषितः । सचिवः क्षम्यतां देव ! रजककन्यामोहपाशेन बद्धः सः तत्र नगरे एव स्थितः । ज्येष्ठभ्राता किं करोति सः अधुना ? : सचिवः तत्र स्थित्वा रजककर्म करोति । नगरजनानां वस्त्राणि क्षालयति । ज्येष्ठभ्राता अहो कुलकलङ्क ! अहं त्वया सह आगच्छामि । विश्वासपात्रान्
सैनिकान् आह्वय ।। सचिवः यथा आदिशति महाराजः । ज्येष्ठभ्राता केनाऽप्युपायेन तम् आनेष्याम्यहम् । यदि कोऽप्युपायो न भविष्यति तर्हि बलात् तं वयमानेष्यामः ।
दृश्यम् (८)
(दृश्यपरिवर्तनसूचनार्थं संगीतम्) पुनः ससइ, ओ ससइ ! अत्र आगच्छ ।
ससइ किम् अस्ति ? किमर्थमाक्रोशति भवान् ? मा पुनः मम ज्येष्ठः भ्राता कुटुम्बस्य इतरजनाः च अत्र आगताः ।।
ससइः अहो ! प्रणमामि सर्वान् जनान् । प्रणमामि ज्येष्ठं भ्रातरम् । ज्येष्ठभ्राता शुभं भवतु । पुर्नु ! तव कुशलमङ्गलं ज्ञातुं वयमत्रागताः ।
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126