SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पुनः मम जीवनं च गौरवं च सा शशिवदना अस्ति । तां प्राप्तुं किमपि कर्तुमहं तत्परः। सचिवः तस्याः हेतोः त्वं रजककर्माऽपि करिष्यसि ? नगरजनानां वस्त्राण्यपि क्षालयिष्यसि ? WC पुर्नुः तस्याः स्नेहं प्राप्तुं किमपि कर्तुमहं दृढनिश्चयः । । सचिवः अहो मूर्खः, स्त्रीलोलुपः । गच्छाम्यहम् । स्वदेशं गत्वा इदं सर्वं तव पित्रे भ्रातृभ्यश्च निवेदयामि । दृश्यम् (७) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) ज्येष्ठभ्राता सचिव, तव श्रद्धया मम भ्राता त्वया सह प्रेषितः । सचिवः क्षम्यतां देव ! रजककन्यामोहपाशेन बद्धः सः तत्र नगरे एव स्थितः । ज्येष्ठभ्राता किं करोति सः अधुना ? : सचिवः तत्र स्थित्वा रजककर्म करोति । नगरजनानां वस्त्राणि क्षालयति । ज्येष्ठभ्राता अहो कुलकलङ्क ! अहं त्वया सह आगच्छामि । विश्वासपात्रान् सैनिकान् आह्वय ।। सचिवः यथा आदिशति महाराजः । ज्येष्ठभ्राता केनाऽप्युपायेन तम् आनेष्याम्यहम् । यदि कोऽप्युपायो न भविष्यति तर्हि बलात् तं वयमानेष्यामः । दृश्यम् (८) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) पुनः ससइ, ओ ससइ ! अत्र आगच्छ । ससइ किम् अस्ति ? किमर्थमाक्रोशति भवान् ? मा पुनः मम ज्येष्ठः भ्राता कुटुम्बस्य इतरजनाः च अत्र आगताः ।। ससइः अहो ! प्रणमामि सर्वान् जनान् । प्रणमामि ज्येष्ठं भ्रातरम् । ज्येष्ठभ्राता शुभं भवतु । पुर्नु ! तव कुशलमङ्गलं ज्ञातुं वयमत्रागताः । ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy