SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ नैन नै नै सचिवः जानामि जानामि । आगच्छ मया सह । Me रजकः रजकी शृणोषि ? केsपि अपरिचितजनाः अत्र आगच्छन्ति । राजपुरुषा इव दृश्यन्ते । अतिथिदेवो भव । वयं स्वागतं करिष्यामः । सचिवः पूर्वपरिचयं विना वयमत्रागता आगमनस्य पूर्वसूचनमपि न प्रेषितं मया। समयाभावेन कृतोऽपराधः । क्षमायोग्यमिदम् । तस्मात् भवान् क्षमताम् । रजकः रजकः दृश्यम् (६) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) Me सचिवः अहं केचमकराणदेशस्य अधिपतेः आरिजाममहाराजस्य सचिवः, अयं आरिजाममहाराजस्य राजकुमारः पुनुंराजः, अन्ये सर्वे अस्माकमनुचराः । रजकी अहो धन्याः खलु वयम् । युष्माकमागमनेन पवित्रम् अभवद् गृहम् । आज्ञापयतु भवान् । प्रीत्यर्थं कामपि सेवां कर्तुमिच्छामि । सचिवः पुनुंकुमारेण सह पाणिग्रहणार्थं भवतः सुतायाः करमिच्छामि । रूपसम्पन्नः अस्माकं कुमारः अपि तस्याः प्रेमभाजनम् । रजकी किन्तु दुहितुः विदेशगमनं मह्यं न रोचते । रजकः पुनुंः रजकी सज्जनानाम् आतिथ्यलाभः महापुण्येन भवति । केन महापुरुषेण सह मम सम्भाषणं भवति ? सचिवः कुमार ! अधुना स्वदेशं प्रति गमनं हि योग्यं भवेत् । किमर्थम् ईदृश: दुराग्रह : ? Jain Education International तस्याः बाल्यात् प्रभृति इदं निर्धारितं यत् तस्याः विवाहसम्बन्धः स्वजातिमध्ये वयं करिष्यामहे । यः जनः रजको भूत्वा अस्मिन् नगरे स्थातुं तत्परः तेन सह तस्याः विवाहसम्बन्धः संभवति । पुनुंः अहं रजको भूत्वा अस्मिन् नगरे स्थातुं वचनबद्धः । सचिवः पुनुंकुमार ! न भवान् उपयुक्तं भणति । स्वगौरवं विचारय । नैनै नै नै नै नैनै न ८८ For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy