SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ 聽聽聽聽聽 1, पुर्नुः यद् इच्छति भवान् । अहमपि क्षणार्धेन आगच्छामि । केन अभिधानेन । अस्य नगरस्य जनाः भवतीं संबोधयन्ति ? ससइः ससइ मे अभिधानम् । हं ससइ । शशिवदना । भवतीं प्राप्य शशिवदना नाम सार्थकम् अभवत् । ससइः अलं प्रशंसया । अतीव चतुरः वाक्पटुः च दृश्यते भवान् । पुनः पश्यतु । आगच्छन्ति माम् अन्वेष्टुं मम सेवकाः ततः गच्छामि पुनरागमनाय । ससइः वयमपि प्रतीक्षामहे । दृश्यम् (५) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) सचिवः पुर्नुकुमार ! सार्थवाहकार्य सम्पन्नम् । क्रीतम् आवश्यकं धान्यम् । प्रातःकाले वयम् अस्माकं देशं प्रति प्रस्थानं करिष्यामः । कुमार ! किम् अभवत् ? उत्तरं देहि । जानामि तां रजककन्यां चिन्तयसि त्वम्।। विस्मर अधुना ताम् । सा रजककन्या, त्वं राजकुमारः तस्मात् तां विस्मर । न आगच्छाम्यहं भवता सह । कथं विस्मरामि ताम् ? तस्या विना जीवनं व्यर्थम् । सा हि मम जीवनम् । सचिवः कुमार ! स्वकुलगौरवं विस्मरसि त्वम् । सा त्वया सह परिणयार्थं न युक्ता । उत्तमवंशोत्पन्नां कन्यां वयमन्विष्यामः । पुनः एकैव कन्या मया सह परिणयार्थं निर्मिता । सैव शशिवदना । यार अत्रैवाऽहं स्थास्यामि । देहं पातयामि वा कार्यं साधयामि । भवान सार्थवाहसमूहेन सह गच्छतु । सचिवः आगच्छ मया सह । तेन रजकेन सह अहं मन्त्रयिष्ये । अहो त्वमेव मम परमशुभेच्छकः । अस्मिन्विदेशे पितृतुल्यो हितरक्षकः । अपरं च... य ८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy