________________
1. ससइः (पुर्नु प्रति) भवन्तं पृच्छामि । किमर्थं भवानत्र सम्प्राप्तः ? यदि .1.
शुल्कदानार्थं भवानत्र सम्प्राप्तः तर्हि पण्यपदार्थान् दर्शय । शृणोति -
भवान् ? अहो किमपि न शृणोति अयं जनः । किं करोम्यधुना ? या 17 सचिवः पुर्नुकुमार ! ओ पुर्नुकुमार ! अरे ध्यानस्थयोगिन् ! नेदं स्थलं तपःस्थानं ।
न च त्वं संसारमुक्तो योगी। तदपि कं देवं स्मरसि त्वम् ? वा कामपि देवीम्.... देवी ! का देवी ? नहि नहि अत्रैवाऽहम् । सचिव ! दर्शयतु
पण्यपदार्थान् शुल्कं च यच्छतु । ससइः (स्वगतम्) अहो पौरुषयुक्तः स्वरः । कामदेवसमः प्रभावकः अयं
पुरुषः । न दृष्टः पूर्वं कोऽपि येन मम मनः एवम् आकृष्टम् ।। सचिवः अयि शुल्काधिकारिणि ! यच्छामि शुल्कद्रव्यम् । अहो सा अपि पार
समाधिस्था । ओ देवि ! अहो किमपि न शृणोति सा ! ससइः क आक्रोशति ? मां वदति भवान् ? सचिवः नहि नहि आकाशभाषितम् ! ओ शुल्काधिकारिणि, शुल्कार्थं धनं
गृहीत्वा प्रतीक्षमाणोऽहं वदामि । शून्यमनस्कभावेन स्थिता भवती एकं
शब्दमपि न शृणोति ! " ससइः क्षम्यताम् ! चञ्चलस्य मे मनसः प्रभावेण इदमभवत् ! कस्माद् देशाद् ।
आगतः भवान् ?
केचमकराणदेशाद् आगता वयम् । अहम्..... 1. सचिवः सा मां पृच्छति । अहं केचमकराणदेशाधिपतेः आरिजामस्य सचिवः।
अयम् आरिजामस्य पुत्रः पुर्नुकुमारः । पुनः भवती अपि स्वपरिचयं दत्त्वा अस्मासु अनुग्रहं करिष्यति । ससइः अहं रजकपुत्री..... पुनः न मन्ये । स्वर्गाद् आगता काचिदप्सरा असि त्वम् । सचिवः पुर्नुकुमार ! अहं गच्छामि । सार्थवाहसमूहस्य भोजननिवासादिव्यवस्था
कर्तुं मम गमनम् अनिवार्यमस्ति । अनुज्ञामिच्छामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org