Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ विन्स्टनचर्चिलमहोदयः अमेरिकीयप्रवासे विभिन्नेषु स्थलेषु, सफलानि प्रवचनानि कृतवान् । तद दृष्ट्वा काचिद् महिला पृष्टवती - 'चर्चिल- महोदय ! यदा कदाऽपि भवान् प्रवचनं करोति तदा सभागृहमाऽन्तं जनाकीर्णं भवति । एतेन च भवान् रोमाञ्चितोऽपि स्यादेव खलु ?' 'भवत्याः कथनेन यद्यपि प्रसन्नोऽहं जातः किन्तु तदाऽहमन्यदपि विचारयाम्येव यद् मम प्रवचने बहुसङ्ख्याका जना यद्यपि समुपस्थिता भवन्ति, किन्तु यदि मम मृत्युदण्डो घोषितः स्यात् तदा हीतोऽप्यधिको जनसम्मर्दः सम्मीलितः स्यात्' इति चचिलमहोदयः कथितवान् । मुसोलिनीमहोदयः कदाचित् कारयानेन पर्यटितुं निर्गतः । कस्यचिद् ग्रामस्य समीपे यानं क्षतिग्रस्तं जातम् । स च निर्भयं पद्भयामेव पर्यटितुं गतवान् । ___ ग्रामं प्रविश्य समययापनाय स कस्मिंश्चित् चलच्चित्रगृहं प्रविष्टवान् । सामान्यवेशं परिधायैव स निर्गत आसीदतः कोऽपि तं नोपलक्षितवान् । चलच्चित्रस्याऽऽरम्भे मुसोलिनीमहोदयस्य चित्रमेकं पटे प्रदर्शितं जातम् । सर्वेऽपि प्रेक्षकास्तस्याऽभिवादनाय स्व-स्वस्थाने उत्थिता जाताः । किन्तु मुसोलिनी उपविष्ट एव स्थितः । तद् दृष्ट्वा समीपवत्र्येकः प्रेक्षक उक्तवान् - भो ! अहमपि भवानिवैव धिक्करोमि । नाऽहमप्युत्सुकोऽस्याऽभिवादनाय किन्त्वेवंकरणेनैवाऽस्माकं क्षेमोऽस्ति । क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिः स्मृता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126