Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ नर्म महाजनानाम् मुनिरत्नकीर्तिविजयः कश्चिद् नूलो महत्त्वाकाङ्क्षी च कविः ओस्कारवाईल्डमहोदयाय स्वकीयं दुःखनिवेदनं कृतवान् - "विवेचका मामुपेक्षन्ते । मामुपलक्ष्य कश्चित् कूटप्रबन्धोप्यायोजितोऽस्ति-मौनरूपेण कूटप्रबन्धः ! किमत्र कर्तव्यं मया ?' इति । तस्मिन् कूटप्रबन्धे भवानपि सम्मीलितो भवतु । नाऽस्त्यन्यः कोऽप्युपायः । - ओस्कारवाईल्डमहोदय उक्तवान् । एकदा ओस्कारवाईल्डमहोदयः स्वनिर्मितस्य नाटकस्य प्रथमां प्रस्तुति निरीक्ष्याऽऽगतः । वयस्यः कश्चित् पृष्टवान् - किं भोः ! मञ्चनं सफलं वा जातम् ? आम्, मञ्चनं तु सफलमेवाऽऽसीत् किन्तु प्रेक्षका निष्फला जाताः ! - निष्फलतां गतं नाटकमभिप्रेत्य ओस्कारमहोदयः स्पष्टतां कृतवान् । (३) हिटलरो यदा कदाचिद् ज्योतिषिकाणामभिप्रायमपि पृच्छति स्म । एकदा 'रिच'महोदयं स पृष्टवान् - 'मम मृत्युः कदा भविष्यति ?' 'भवान 'ज्यु'जातीयानामुत्सवदिने मरिष्यति ।' 'एवं खलु ? कः स उत्सवः ?' 'तदहं न जानामि, किन्तु यदा भवतो मृत्युभविष्यति तद्दिनेऽवश्यमेव 'ज्यु'जातीयानामुत्सवः स्यात्' - इत्युक्तवान् रिचमहोदयः । ९३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126