________________
नर्म महाजनानाम्
मुनिरत्नकीर्तिविजयः
कश्चिद् नूलो महत्त्वाकाङ्क्षी च कविः ओस्कारवाईल्डमहोदयाय स्वकीयं दुःखनिवेदनं कृतवान् - "विवेचका मामुपेक्षन्ते । मामुपलक्ष्य कश्चित् कूटप्रबन्धोप्यायोजितोऽस्ति-मौनरूपेण कूटप्रबन्धः ! किमत्र कर्तव्यं मया ?' इति ।
तस्मिन् कूटप्रबन्धे भवानपि सम्मीलितो भवतु । नाऽस्त्यन्यः कोऽप्युपायः । - ओस्कारवाईल्डमहोदय उक्तवान् ।
एकदा ओस्कारवाईल्डमहोदयः स्वनिर्मितस्य नाटकस्य प्रथमां प्रस्तुति निरीक्ष्याऽऽगतः । वयस्यः कश्चित् पृष्टवान् - किं भोः ! मञ्चनं सफलं वा जातम् ?
आम्, मञ्चनं तु सफलमेवाऽऽसीत् किन्तु प्रेक्षका निष्फला जाताः ! - निष्फलतां गतं नाटकमभिप्रेत्य ओस्कारमहोदयः स्पष्टतां कृतवान् ।
(३) हिटलरो यदा कदाचिद् ज्योतिषिकाणामभिप्रायमपि पृच्छति स्म । एकदा 'रिच'महोदयं स पृष्टवान् - 'मम मृत्युः कदा भविष्यति ?' 'भवान 'ज्यु'जातीयानामुत्सवदिने मरिष्यति ।' 'एवं खलु ? कः स उत्सवः ?'
'तदहं न जानामि, किन्तु यदा भवतो मृत्युभविष्यति तद्दिनेऽवश्यमेव 'ज्यु'जातीयानामुत्सवः स्यात्' - इत्युक्तवान् रिचमहोदयः ।
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org