SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ बर्नार्ड शो महोदयेन निर्मितस्य नाटकस्य मञ्चनमत्यन्तं सफलं जातम् । सर्वेऽपि सभासदः शॉमहोदयाय सभा सम्बोधयितुं विज्ञप्तवन्तः । प्रशंसकानामाग्रहेण शोमहोदयो सभासमक्षमुपस्थितो जातः । तदैव कश्चिद् विरोधी उच्चस्तदवमाननायोद्युक्तो जातः । नाटकमुद्दिश्य यद्वा तद्वा प्रलपितुं प्रवृत्तः । सभासदः क्षुब्धा जाताः । यस्माच्च सभागृहस्य कोणात् स प्रलपन्नासीत् तत्र निरीक्ष्य शॉमहोदय उक्तवान् - 'भोः ! अहमपि भवदभिप्रायेण सह सम्मतोऽस्मि । किन्तु बहुसङ्ख्यकानां सभासदां पुरत आवयोर्द्वयोः का गतिः ? इति । एतेन वराकः स तूष्णीको जातः । सेम्युअल्-एफ्. बी. मोर्समहोदयः स्वकीयस्य विद्युद्वार्तायन्त्रस्य शोधनाय विख्यात आसीत् । सहैव स कुशलश्चित्रकारोऽप्यासीत् । कदाचिद्, मृत्युशय्यायां स्थितस्य बाढं प्रातिकूल्यमनुभवतो जनस्य चित्रमेकं स चित्रितवान् । तच्च स स्वकीयं चिकित्सकमित्रमभिप्रायार्थं दर्शितवान् 'भोः ! कोऽभिप्रायोऽत्र भवतः ?' चिकित्सकः स तद् दृष्ट्वा त्वरितमेव प्रत्युत्तरितवान्'शीतज्वरः (मेलेरिया) प्रतिभासते - खलु' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy