SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ र पुनः (पवनध्वनिः श्रूयते) पुर्नुकुमार, पुर्नुकुमार, अन्तकाले तव 1, दर्शनमिच्छामि। गच्छामि न पुनरागमनं शक्यम् । दुष्करो मार्गः । अतीव क्लान्तोऽहम् । अहो तत्र किं दृश्यते ? सिकतादुर्गमध्ये किञ्चिद् वस्त्रं पश्यामि । अतिपरिचितः वस्त्रखण्ड: दृश्यते । मम प्रियायाः वस्त्रम् । सिकतां दूरीकृत्य पश्यामि । (तथा करोति) ससइ ! त्वम् ! इदं किम् अभवत् ? वद ! त्वं किमर्थं न वदसि ? अहो मां त्यक्त्वा गता सा । ससइ, ससइ ! न जीवाम्यहम् । त्वमत्र किमर्थमागता ? ओ दुर्दैव ! कस्याऽपराधस्य दण्डं ददासि ! मह्यम् ? अहमपि त्वया सह आगच्छामि । ससइ ! ससइ प्रतीक्षस्व । ससइ, ससइ, अहम् आगच्छामि । (वातध्वनिः श्रूयते) दृश्यम् (११) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) . रजकः अहो कुत्र गता सा । पुत्रि कुत्र असि त्वम् ? रजकी तत्र पर्वताग्रे किञ्चिद् दृश्यते । रजकः अहं पश्यामि । अहो महाननर्थो जातः । लुप्तमस्माकं जीवनधनम् । अस्माकं सर्वं नष्टम् । मन्ये अतीव श्रमेण पिपासया, क्षुधा च मरुभूमौ सा स्वर्गमार्ग प्रयाता । तां मृतां दृष्ट्वा सोऽपि शोकाकुलः भूत्वा प्राणानत्यजत् । रजकी धन्यः अन्योन्यस्य प्रणयभावः । अधुना अहम् अत्रैव स्थित्वा मम पुत्री स्मृत्वा शेषजीवनं व्यतीतं करिष्यामि ।। रजकः अहमपि त्वया सह अत्र स्थित्वा जीवनं व्यतीतं करिष्यामि । - कलावान् धनवान् विद्वान् क्रियावान् धनमानवान् । - नृपस्तपस्वी दाता च स्वतुल्यं सहते न हि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy