SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ र रजकः दृश्यन्ते ! अम्ब, ओ अम्ब ! अत्र आगच्छ । रजकी ससइ, किमर्थम् आक्रोशसि ? ससइः अम्ब, कुत्र गताः सर्वे जनाः ? कमपि न पश्यामि ! रजकः अनर्थः अभवत् । एकेन कृषकेण कथितम् । रात्रौ सर्वे जनाः पुर्नुकुमारं बन्धनग्रस्तं नीत्वा पलायिताः । ससइः क्व गतः मम भर्ता ? क्व गतः मे नाथः ? अहमपि गच्छमि तमन्वेष्टुम् । अहमद्यैव गच्छामि । पुत्रि, कुत्र गच्छसि त्वम् ? दुष्करः मार्गः । अतीव विप्रकृष्टः देशः । ससइः अहं तमन्वेष्टुं गच्छामि । आगच्छामि पुर्नुकुमार, अहं तव मार्गे आगच्छामि। रजकः अहो भ्रान्तचित्ता सा ! कुत्र गमिष्यति सा ? रजकी पुत्रि, प्रतिनिवर्तस्व, न गच्छ तस्मिन् मार्गे । दृश्यम् (११) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) कुत्र अस्मि अहम् ! अहो मद्यपानेन भ्रमितचित्तः अहम् ! मम ।। स्नेहभाजनभूता मम बान्धवः ईदृशं करिष्यन्ति इति न चिन्तितं मया पूर्वम् । केचमकराणामार्गे स्थिता मम सर्वे भ्रातरः निद्राग्रस्ताः । पर तस्मात् गमिष्याम्यहम् । मम प्रिया भार्या मां न दृष्ट्वा अतीव चिन्तिता भविष्यति । तस्मात् भंभोरमार्गेण गच्छामि । शशिवदने ! अहम् आगच्छामि । 聽聽聽聽聽聽聽聽 - पुर्नुः ससइः M दृश्यम् (१२) (दृश्यपरिवर्तनसूचनार्थं संगीतम्) अतीव क्लान्ता अहं, मार्गोऽपि न दृश्यते । जलं विना एकं पदमपि गन्तुं न शक्यम् । अहो पुर्नुकुमार ! अस्मिन् जीवने मिलनं न शक्यम्। अहो सिकताक्रमणम् । अतीव तापः । तापेन सह उष्णः पवनोऽपि। र ९१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521023
Book TitleNandanvan Kalpataru 2009 10 SrNo 23
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2009
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy