Book Title: Nandanvan Kalpataru 2009 10 SrNo 23
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ मृतायाः पत्न्या अन्तिमविधि कृत्वा पतिर्गृहं प्राप्तः । तावताऽऽकाशे विद्युत् प्रकाशिता मेघगर्जनं च जातम् । एतद् दृष्ट्वा पतिना चिन्तितं – 'नूनं प्राप्ता सा तत्र !' । ग्राहकः अयं कुक्कुरो विश्वासार्हस्त्वस्ति खलु ? विक्रेता अवश्यम् । मयाऽयं वारत्रयं विक्रीतः । प्रतिवारं स मत्समीपमेव प्रत्यागच्छति। सुज्ञः मम पितामहो मृत्यकालेऽस्मत्कृते दशलक्षं रूप्यकाणां मुक्त्वा स्वर्गतः । । अज्ञः मम पितामहस्तु विंशतिर्लक्षं मुक्त्वा गतः । पर स्वज्ञः मम पितामहस्तु सर्वमपि जगद् मुक्त्वा गतः । ९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126